स्वामी वाह- "'दॄ भये । दरति । क्र्यादौ 'दॄ विदारणे' । तस्यैव मित्त्वार्थ इह पाठ इत्येके । दिवादौ दीर्यत इति पञ्चिका । कर्मकर्तरि दीर्यत इत्येक” इति । धनपालशाकटायनौ तु क्र्यादौ च 'दॄ भये' इत्येवाहतुः । 'दृङ् आदरे' । तुदादिः । आद्रियते ॥
पृणाति पूरणे श्लौ तु पिपर्त्ति णिचि पारयेत् ॥ ३६॥
'पॄ पालनपूरणयोः' । प्वादिः । श्लौ त्वयं [१]ह्रस्वान्तः । तथा च 'तं रोदसी पिपृतं सत्यवाचम्' इति श्रूयते । मैत्रेयराक्षतस्तु ह्रस्वान्तं पठित्वा 'दीर्घान्तोऽयमित्येके' इत्याह । तत्फलभेदश्च* पिपृतः पिप्रति पिपूर्त्तः पिपुरतीति । तत्र च ‘उदोष्ठ्यपूर्वस्य' (७-२-१०२) इत्युत्वं रपरत्वं च । 'हलि च' (८-२-७७) इति दीर्घः । क्षीरस्वामी तु-दीर्घान्तं पठित्वा 'ह्रस्वान्तोऽयमिति नन्दी' इति । 'पॄ पूरणे' । अत्र च स एवाह – 'पृ इति दुर्गः । पारयति परति' इति । एतच्च [२]चुरादिणिचोऽनित्यत्वाश्रयेण ॥
वृवृञोरञितो धातोर्वृणाति वरणे भवेत् ।
वृणाति च वृणीते च वृञस्तत्रार्थ इष्यते ॥ ३७ ॥
'वृ वरणे' । 'वृञ् वरणे' । प्वादिः । वृवृञोरिति निर्धारणे षष्ठी । तत्र चाद्यं पवर्गतृतीयादिं बहवः पठन्ति । 'बृ भरण' इति क्षीरस्वामिशाकटायनौ ॥
सिद्धे पदद्वये वृञो ञित्त्वाद् यदञितो वचः।
फले तत् कर्त्राभिप्राये परस्मैपदसिद्धये ॥ ३८ ॥
१. अस्यार्थस्तु दीर्घान्तस्येवेत्यर्थः. २. न तु युजादित्वेन.
+द च' इति गपुस्तके पाठः
- 'दं च' इति गपुस्तके पाठः