"'जन जनने जजन्ति । 'गा स्तुतौ' । जिगाति । 'छन्दसि' इति च्छान्दसावेतौ । घृप्रभृतयोऽपि च्छान्दसा इति केचिद् " इति । (गा स्तुतौ ?) तत्स्थ एवात्र ग्राह्यः केचिच्छब्दो भाष्या- नुसारिण इत्येवं व्याख्येयः । तत्रापि जिघर्तीति च्छन्दसि दृश्य- ते । 'वरिष्ठं वज्रमाजिघर्ति मायनी' इति ॥
प्रीतौ पृणोत्यृदन्तस्य व्यायामे प्रियते पृङः ।
'पृ प्रीतौ' । स्वादिः । 'पृङ् व्यायामे' । तुदादिः । व्या- प्रियते ॥
मृणाति हिंसार्थे प्वादेर्मुङस्तु म्रियते पदम् ॥ ३४ ॥
'कॄ हिंसायाम् ' । 'मॄ इत्येके' इति मैत्रेयरक्षितः । क्षीर- स्वामी तु 'मॄ हिंसायाम् इत्यपि पृथक् पपाठ । किन्तु बॄ इति पवर्गतृतीयोपधतया मैत्रेयरक्षितपठितस्य स्थाने मॄ इति । 'मृङ् प्राणत्यागे' । तुदादिः ॥
स्तॄञः श्नि च्छादने प्वादेः स्तृणीते च स्तृणाति च ।
श्नावृदन्तस्य तत्रैव स्तृणोति स्तृणुते स्तृञः ॥ ३५ ॥
'स्तॄञ् छादने' । 'स्तृञ् छादने' ॥
दरेद् दृणाति द्रियते क्रमाद् भीदारणादरे।
'दॄ भये'। घटादिः । अत्र मैत्रेयरक्षितः- " 'दॄ विदारणे'। क्र्यादिः । तस्य मित्त्वार्थः पाठः । धात्वन्तराभ्युपगमे दरतीत्ये- क" इति । धनपालहरियोगिपूर्णचन्द्रास्तु दरतीत्येवाहुः । क्षीर-
१. घृप्रभृतिगणान्ते पठितस्य छन्दसीत्यस्य तद्गणीयेषु सर्वेषु सम्बन्धौचित्या- दिति भावः. २. भाष्यं च 'अर्तिपिपर्त्योश्च' (७-४-७७) इति सूत्रस्थम् . ३. समाहारद्वन्द्वनिर्देशोऽयम् .
$'वमाहुः' इति घपुस्तके पाठः.