पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
दैवं

 ऋदन्तस्य भृणातीति भर्त्सने श्नि तथा भरः॥ २८ ॥

  'डुभृञ् धारणपोषणयोः' । जुहोत्यादिः । टुभृञित्येके । तथा च भृत्रिममित्युक्त्वा 'भरथुरिति केचिदिति मैत्रेयरक्षितः। क्षीरस्वामी तु 'टुभृञिति द्रामिडाः। भरथुः' इति । सुधाकरः पुनर- थुज्विधौ टुभृञित्युक्त्वाह - डुभृञं द्रमिडाः पठन्ति । तेन भृत्रिमं भरथुरिति द्वयमिच्छति नन्दी' इति । टुडुभृञित्यनुबन्धद्वय- मपि शाकटायनः । तन्मते हि 'अप्रयोगीद्' इतीत्त्वम् । अत्रा- मोघा- 'इह शास्त्रे उपदिश्यमानो वर्णः समुदायो वा यो लौकिके शब्दप्रयोगे न दृश्यते, स इत्संज्ञो भवति । अत एव चास्य प्रयो- गाभावः सिद्धः । उपदेशस्तु कार्यार्थ' इति । तत्र च भरणेन निर्वृत्तं भृत्रिममिति । ‘ड्वितः क्रिः (३-३-८८) इति क्रिः । 'क्रेर्मब् नित्यम्' इति मप् । भरणं भरथुः । 'ट्वितोऽथुच्' (३-३- ८९) इत्यथुच् । 'भृञ् भरणे' । 'वॄ वरणे । भॄ भर्त्सने च' । प्वा- दिः । “'वॄ भॄ भरणे । 'भॄ भर्जने च' भर्जनं पाक" इति क्षीर- स्वामी । स चात्र भर्जनाख्यः पाकभेद एव प्रसिद्धो बोद्धव्यः । 'ऋजि, भृजी भर्जने' इत्यत्र च स एवाह - 'भर्जनं पाकप्रकार' इति । भरणपाठे च भरस्य भारपर्यायत्वौचित्यं व्यक्तम् । स च ऋदन्तपाठफलम् । 'ऋदोरप्' (३-३-५७) इत्यप् ।

 ध्रियते स्यादवस्थाने धृङोऽवध्वंसने पुनः ।
 धरते धारणेऽर्थे तु धरते धरतीत्युभे ॥ २९ ॥


१. 'भॄ भरणे' इति क्षीरस्वामिपाठे. २. भरश्च भरशब्दश्चेति यावत् .


  • 'यत्वादौचित्यम्' इनि घपुस्तके पाठः.