पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
पुरुषकारोपेतम् ।


इति सम्प्रसारणम् । 'च्छ्वोः शूडनुनासिके च' (६-४-१९) इति च्छस्य शः। जूर्णिर्वृद्धः। तूर्णिः शीघ्रः । ज्वरत्वरस्रिव्यविमवामुप- धायाश्च' (६-४-२०) इत्युपधावकारयोरूठ् । प्रयोगश्च 'न स्नात्वा वासो धुनुयात्' 'ऊर्ध्वं धूनोति वायुर्विवृतशवशिरःश्रेणिकुञ्जेषु गुञ्जन्' इत्यादिर्भूवादि (१-३-१) सूत्रे सुधाकरेण दर्शयाम्बभूवे । सर्वथापि-

 'धूनयति धवति धवतेऽधुनाद् धुनीते च धूनुतेऽधूनोत् ।
 धुनुतेऽधुनोदिति स्युः

इत्यनेन क्रमेण पठितुं युक्ततरम् । 'धू विधूनने' । तुदादिः ॥

 श्नि पुनाति पुनीते स्तां पवने पवते ङितः।

  'पूञ् पवने । 'पूङ् पवने' ॥

 प्रसह्य हृत्यां' हरणे जहर्ति हरते हरेत् ॥ २७॥

  "हृ प्रसह्य हरणे' । जुहोत्यादिः । 'हृञ् हरणे' । तत्र चाद्यो घृप्रभृतित्वाच्छान्दसः । स च जिहर्तीति दृश्यते-- 'अयं स्रुवोऽभि. जिहर्ति होमान्' इति । 'भृञामित्' । 'बहुलं छन्दसि' (७-४-७८) इत्यभ्यासस्येत्वम् । घृप्रभृतीनां छान्दसत्वम् 'अर्तिपिपर्त्योश्च' (७-४-७७) इत्यत्र भाष्यतद्व्याख्यानयोर्व्यक्तम् ।।

 भृञो बिभर्ति बिभृते भरते भरतीत्यपि ।


१. स्वाद्युदाहरणानां विजातीयाव्यवधानं हि स्वादिविषयपक्षभेदप्रतिपत्तौ सौ- कर्यमादधाति; यथास्थितपाठस्तु प्वादिधातुना व्यवधानान्न तथेति तात्पर्यम् . २. 'करणे' इत्येव माधववृत्त्यादिषु दृश्यते.


 'यामासे' इति गपुस्तके पाठः. +'कृत्याम्' इति गपुस्तके पाठः. *जिह-

र्ति' इति कपुस्तके पाठः,