पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
पुरुषकारोपेतम् ।

जयेज्जयाभिभवयोराद्येऽर्थेऽसावकर्मकः ॥ १३ ॥
उत्कर्षप्राप्तिराद्योऽर्थो द्वितीयेऽर्थे सकर्मकः ।

 'जि जये। जयेत् कृष्णः । सर्वोत्कर्षेण वर्तेतेत्यर्थः । 'जि अभिभवे । जयेत् कंसम् । 'जि, ज्रि अभिभवे' इति क्षीरस्वामी। 'अभिषव इत्यपरे' इति च पूर्णचन्द्रः । तत्र च नि इति पाठो ज्रयतीति ताभ्यामुदाहृतोऽपि 'जिगादुपज्रयति गोरपीच्यम्' इत्या- दिदर्शनादार्षः । सर्वथाप्यर्थभेदाद् द्विष्पाठ इति तात्पर्यार्थः । एवं च 'नि अभिभवे' 'जि जये च' इति सकृदेव पाठश्चिन्त्य इत्यप्यर्थादायातम् । सकर्मकाकर्मकोक्त्या तु प्रयोगभेदश्चास्ती- त्युक्तम् । नन्वेवमपि 'जि जय' इत्येव द्वावप्यर्थौ सिद्धौ जय- त्वाविशेषादित्यत उक्तम् उत्कर्षप्राप्तिरिति । न जय इति जयमानं गृह्यते । द्विष्पाठबलाद् गोबलीवर्दनीत्या जयविशेष- स्यैव ग्रहणात् । द्विष्पाठस्त्वर्थप्रयोगभेदौ व्यङ्क्तुमित्यभिस- न्धिः ॥

 अयत्येतीयते गत्यामधीतेऽध्येति चेङिकोः॥१४॥

  'इ गतौ' । 'ई' इत्येके । अनयोश्च पाठयोरियाय अयाञ्च- कारेति फलभेदः । तयोश्चाद्ये 'अभ्यासस्यासवर्णे (६-४-७८) इती- यङादेशः । अन्त्ये तु 'इजादेश्च गुरुमतोऽनृच्छः' (३-१-३६)

 १. इदं ७ अष्टके २ अध्याये २५ वर्गे ५ ऋचि । उपज्रयतीत्यस्य उपगच्छ- तीत्यर्थो वर्णितः सायणाचार्यैः. २. द्विष्पाठस्य प्रामाणिकत्वे सिद्ध इत्यर्थः. ३. 'आद्येऽर्थेऽसावकर्मकः' इत्युक्त्या. ४. गोशब्दस्य गोविशेषपरत्वाश्रयण- न्यायेन.


'च' इति न पठ्यते गपुस्तके.