पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
दैवं

(३-३-१०४) इत्यङि कृते क्षियेत्येवंरूपफलसूचनार्थं च । दीर्घा- न्तोऽयमित्येके । 'क्षीणाति' इति हेमचन्द्रः। 'क्षि निवासगत्योः । तुदादिः । औ उविकरणे अगुणे 'संज्ञापूर्वको विधिरनित्य' इति गुणाभावे च सति 'क्षणु हिंसायां क्षिणु च' इति मैत्रेयरक्षिताद्यु- क्तस्य धातोः क्षिणोतीति भवति । अस्य च नुमादिनान्यभावेऽपि क्षिसादृश्यादत्रोक्तिः । स्वरितेत्त्वाच्च क्षिणुत इत्यात्मनेपदस्याप्यु- पलक्षणमेतत् । हरियोगी तु अत्र ‘संज्ञापूर्वको विधिरनित्य' इत्ये- तदनादृत्य क्षेणोतीत्युदाहार्षीत् । तथैव च चान्द्रेण पूर्णचन्द्रेण 'ऋणु गतौ' 'तृणु अदने' 'घृणु दीप्तौ' इत्यत्र अर्णोति तर्णोति घर्णोतीत्युदाहृत्योक्तं- 'धातोर्लघोरुपान्त्यस्यादेङ् नेष्यत' इत्य- न्यः। तस्याभिप्रायो मृग्य” इति । क्षीरस्वामी पुनः क्षणुमेव पठि- त्वा 'क्षिणु इति दुर्गः क्षिणोति' इत्याह; ऋणोतीत्यादि चोदाहृत्य 'एते सार्वधातुके सन्दिग्धगुणाः अर्णोति' इत्याद्याह । क्षेरेव तु श्नौ सति भाषायामपि क्षिणोतीति भवतीत्येके । तथा च मैत्रेयर- क्षितः स्वादिगणे 'तृप प्रीणने' इत्यस्यानन्तरं पठ्यमानं छन्दसी- त्येतद् व्याचक्षाणः 'छन्दसीत्यागणपरिसमाप्तेरधिक्रियत' इति क्षी. रस्वामिवदुक्त्वाह - 'रि क्षि चिरि जिरि दाश दृ हिंसायाम्' । क्षि- णोति । भाषायामप्यस्य प्रयोगं केचिदिच्छन्ति । 'पञ्चबाणः क्षि- णोति'” इति । क्षीरस्वामी तु ऋक्षि इति पठित्वा ऋङ्क्ष्णोतीति आनृङ्क्ष इति चोदाहृत्य 'ऋणोति क्षिणोतीत्येके इत्याह ॥


१. दीर्घान्तत्वमेवादृतं सिद्धान्तकौमुद्याम् . २. आदिना तृणोति घृणोति. ३. आदिना तर्णोति घर्णोति. ४. इदित्त्वान्नुम् । सिद्धान्तकौमुद्यां तु एकधातु- पक्षे 'ऋक्षिणोति' इत्युदाहरणं दृश्यते. ५अयं प्रयोगो मन्त्रे मृग्यः. 'इजादेख

गुरुमतोऽनृच्छः' (३-१.३९) इत्याम् 'अमन्त्र इति' निषेधान्न.