पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
दैवं

त्योक्तः । पक्षान्तरे तु मारणादिष्वन्यतः सिद्धत्वात् ततोऽन्य- त्रैवानेन विधिर्युक्तः । 'ज्ञा <ref><ref>'नियोगे'। आज्ञापयेत् ॥

 मिमीते मायते माने माति तत्रैव शब्लुकि ।
 मयते प्रणिदानेऽर्थे

 'माङ् माने शब्दे च'। जुहोत्यादिः। माङ्मानशब्दयोरित्यनुक्तिर<ref><ref>न्वाचयद्वारा शब्दे प्रयोगाप्राचुर्यार्था <ref><ref>नूनम् । यदाह 'गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च' इत्यत्र क्षीरस्वामी- <ref><ref>अत्र पृथक्पाठो विरलप्रयोगार्थ' इति । <ref><ref>व्यभिचरति चैतत् 'पूयी विशरणे दुर्गन्धे च' इत्यादौ । 'भृञामिद्' (७-४-७६) इत्यभ्यासस्येत्त्वम् । 'माङ् माने' दिवादिः । अयं च मैत्रेयरक्षितेनानुमतः; नतु बहुभिः । तथा च 'घुमास्थागापाजहातिसां हलि' (६-४-६६)इत्यत्र न्यासः-- "मा इति कस्येदं ग्रहणं, किं 'मेङ् प्रणिदान' इति भौवादिकस्य, उत 'माङ् मान' इति जोहोत्यादिकस्य, आहोस्विद् मा मान' इत्यादादिकस्य । 'गामादाग्रहणेष्वविशेष' इति त्रयाणामपि ग्रहणम्” इति । क्षीरस्वामी तु दिवादावेवाह-'माङ् मान इति दुर्ग' इति । 'मा माने' । आधेयस्याधारादानधिकपरिमाणतात्र मानम् । तेनाकर्मकोऽयम् । मान्ति तण्डुलाः स्थाल्यामिति । 'मेङ् प्राणदाने' । तच्च विनिमयः । अपमयते विनिमयत इत्यादिः सोपसर्गस्येवास्य प्रयोगो दृश्यते ॥

१. माङः शब्दरूपेऽर्थे या वृत्तिस्तदप्राचुर्यलक्षणानुषङ्गिकत्वरूपोऽन्वाचयश्चशब्दस्यार्थः. २. उक्तं फलं सम्भाव्यते, न पुनरवधार्यते वक्ष्यमाणव्यभिचारादिति भावः. ३. दुर्गन्धे प्रयोगप्राचुर्यादिति शेषः

+नियोजने' इति घपुस्तके पाठः. 'माङ्मानशब्दयोरिति त्वनु' इति गपुस्तके पाठः,

  • 'अस्य' इति घपुस्तके पाठः.