पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
पुरुषकारोपेतम् ।

तु विशेषः । शाकटायनः पुनरन्त्यपक्षानुकूलः । [१][२]त्र च पक्षद्वयेऽपि निशानपाठोऽपि घटादिपाठसाम्याच्छाकटायनानुकूल्याच्च द्रष्टव्यः । क्षीरस्वामिपक्षे पुनर्निशामनपाठोऽपि । 'ज्ञप मिच्च' इत्येव तु मैत्रेयरक्षितः । 'श्लाघह्नुङ्स्था' (१-४-३४) इत्यत्र न्यासकारश्च "सर्वथापि 'प्रच्छ ज्ञीप्सायां' श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः' (१-४-३४) इति ज्ञाने ज्ञापनेऽपि च प्रयोगदर्शनान्मारणाद्यर्थानामुपलक्षणत्वादयं ज्ञपिर्यथादृष्टमर्थान्तरेऽपि भवति" इति । ए[३]वं च 'ज्ञप मिच्च' इत्येव पाठो युक्ततमः । येनैवं मारणादौ ज्ञापने चार्थे ज्ञपयतीति सिद्धं, तेनार्थाद् ज्ञापनेऽर्थे द्वैरूप्यं भवति । यथा हि चुरादौ 'ज्ञप मिच्च' इति ज्ञापनेऽपि मित्त्वविधानाश्रयणाद्ध्रस्वो भवति, तथा घटादौ मारणादिविशेषणबलात् ततोऽन्यत्र मित्त्वाभावाद्ध्रस्वो न भवतीत्यर्थाज्ज्ञापने द्वैरूप्यम् । अथ घटादौ मारणादिषूक्तस्य मित्त्वस्य चुरादावपि तेष्वेवोक्तिः किमर्थेत्यत उक्तम्--उक्तस्योक्तिर्णिचश्चेत्युदितस्यात्मनेपदस्य विघातार्था बाधनार्थेति । अर्थाच्च चुरादिणिचोऽन्यत्राविघातं ब्रुवता ज्ञपयत इत्यपि त[४]त्र स्यादित्युक्तं भवति । अयं च विभागश्चुरादिण्यन्तेभ्यो 'णिचश्च' (१-३-७४) इत्यात्मनेपदाभावप[५]क्षमाश्रि


  1. 'अत्र' इति घपुस्तके पाठः.
  2. निशामनपाठस्य न्यासतः सिद्धत्वान्निशानपाठं साधयितुमाह--तत्रेत्यादि । शाकटायनानुकूल्यं च निशानेषु ज्ञा मिच्चेत्येव तेनाश्रयणाद् बोध्यम् । क्षीरस्वाम्यानुकूल्यं तु न केवलं निशानपाठस्य, किन्तु निशामनपाठस्यापीत्याह--क्षीरस्वामिपक्षे इति.
  3. ज्ञापनाद्यविकार्थसङ्ग्रहाय न्यासकारेण मारणाद्यर्थनिर्देशस्याव्यावर्तकत्वाभिधानाद् 'ज्ञपि' इति पकारविशिष्टतया धातुस्वरूपस्य निर्देशाच्चेत्यर्थः.
  4. घटादौ.
  5. अयं पक्षो मैत्रेयरक्षितोक्तत्वेन भूधातौ दर्शितः.