पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
दैवं

तयोः स्त्यायतीति रूपमिति । एवं तर्हि किमर्थं द्वौ पठितावित्यत उक्तम् एकस्य सो न ष इति । तयोरेकस्य 'स्त्यै' इत्यस्य तिस्त्यासति अतिस्त्यपदित्यादिषु संश्चङन्तेषु 'आदेशप्रत्यययोः' (८-३-५९) इति सस्य षत्वं न भवति अषोपदेशत्वेनानादेशसकारत्वात् । अन्यस्य तु तिष्ट्यासति । अतिष्ट्यपदित्यादि

भवत्येवेत्यर्थः । यथादैवमेव च मैत्रेयरक्षितः । क्षीरस्वाम्यादयः पुनः शाकटायनश्च द्वितीयस्य ष्ट्यायतीत्येव रूपं प्रतिपेदिरे । तद् भाष्योक्तेन षोपदेशलक्षणेन विरु[१]ध्यते । तथा हि--'धात्वादेः षः स' (६-१-६४) इत्यत्र भाष्यम् --'अज्दन्त्यपराःसादयःषोपदेशाः स्मिङ्-स्वदि-स्विदि-स्वञ्जि-स्वपयश्च । सृपि-सृजि-सृ-स्तृ-स्तॄ-स्त्या-सेकृवर्जम्' इति । अच्परो दन्त्यपरो वा सकारः प्रयोग आदिर्येषां सृप्यादिभ्यः सप्तभ्योऽन्येषां धातूनां ते च, स्म्यादयश्च पञ्च पाठे षादयो वेदितव्या इत्यर्थः । 'ष्वञ्ज परिष्वङ्गे' । 'ञिष्वप् शये' । 'गम्लृ सृप्लृ गतौ' । शेषास्त्विकारान्तादिष्वेव वक्ष्यन्ते । तत्र च स्तृ इति हृस्वान्तं केचिन्न पठन्ति । तथा च 'स्तॄञ् छादने' इति दीर्घान्तमेव जिनेन्द्रादयः प्रायः पठन्ति । श्रीधरस्तु 'स्तॄञ् छादने' दीर्घः 'स्तृञ् छादने' हृस्व इत्युभावप्युपन्यास्थत् । स्त्येति चात्र स्त्यै गृह्यते । भागवृत्तौ तु 'सीकृ-सेकृ' इत्यधिकमपि पठ्यते । तच्च 'सीकृ सेचने' इति श्रीधरो व्याकरोत्; 'एतानष्टौ वर्जयित्वा' इति चाधिक्यमेव मुक्तकण्ठमुक्तवान् । तच्चैतल्लक्षणं


  1. दैवमैत्रेयरीत्या द्वयोरपि धात्वोर्दन्त्यपरसादित्वाभ्युपगतौ द्विष्पाठसाफल्यायैकस्यैव षोपदेशत्वप्रतिषेधकक्ष्यायां निवेशादपरस्मिन् षोपदेशलक्षणं प्रसरमासाद्य व्यापकत्वं प्राप्नुयात् । क्षीरस्वाम्यादिपक्षे तु तादृशविषयपरिलोपो भवतीत्येतावता विरोधो बोध्यः.