पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
पुरुषकारोपेतम् ।

ल्पयतीत्युदाहरणं च समर्थो भवतीति व्या[१]चष्ट[२] । मूलशुद्धिस्त्वत्र कीदृशीति न विद्मः । तथा च 'दध धारणे' इत्यत्र स[३] एवाह--'कौशिकस्तु दद धारणे, दध दान इति पाठं व्यत्यास्थत् । युक्तायुक्तत्वे तत्र सूरयः प्रमाणम् । वयं तु मतभेदप्रदर्शनमात्रेणैव कृतार्थाः । मुनिप्रख्यानां वाक्यं कथङ्कारं विकल्पयामः । वयमपि हि स्खलन्तोऽन्यैः कियन्नोपालप्स्यामहे' इति । तदेवं

पाठा व्याख्याश्च धातूनां दृश्यन्ते स्वैरिणः क्वचित् ।
प्रयोग एव भगवांस्तानवस्थापयेत् पथि ॥

सर्वथापि 'चुर स्तेये' इत्यत्र चुरादिण्यन्तेभ्यो णिचश्चेत्यात्मनेपदं नेच्छन्तीति मैत्रेयरक्षितेनोक्तं तत्र तत्र च तेनैव व्यवहृतमादृत्य भावयतीति परस्मैपदमात्रमुदाहृतम् । न त्वेतद् बहूनामनुमतम् । उक्तञ्च तेनैवापि--'धातुपारायणे त्वात्मनेपदमुदाहृतम्' इति । तेनात्र चोत्तरत्र च चुरादिण्यन्तादप्यात्मनेपदमुदाहार्यम् । शाकटायनः पुनः पूर्वमेव पक्षं पर्यग्रहीत् ॥

 एवं भूवादयो धातव इति प्राथम्यं मङ्गलं चानुसृत्य भुवः पुनःपाठफलं प्रथममुक्त्वातः परं पाठक्रममुल्लङ्घ्य बुद्धिलाघवाद्यथासम्भवं मा[४]तृकाक्रममाश्रित्याह--


  1. एतेन पूर्वस्य व्याख्याप्रकारस्य क्षीरस्वामीयत्वं न प्रतीयते । प्रौढमनोरमायां तु 'क्षीरम्वामी तु कृपेस्तादर्थ्य इति पठित्वा तादर्थ्य इति प्रस्तुतस्य भुवोऽर्थे मिश्रीकरणे, अथवा तच्छब्देन क्लृपिः परामृश्यते । तस्य योऽर्थः सामर्थ्यलक्षणः तस्मिन्निति द्वेधा व्याख्यद्' इति दृश्यते.
  2. 'चष्टे' इति घपुस्तके पाठः.
  3. क्षीरस्वामी.
  4. अयं च क्रमो धातोरन्ते बोध्यः.