पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
पुरुषकारोपेतम् ।

च कैय[१]टोक्तिनिर्वाहादवसीयते । यथाप्रयोगं क्वचिदपठितेऽप्यर्थे धातवो भवन्तीति यावत् । अत्र च सत्तायां भवति, प्राप्तौ भावयते भवते, अवकल्कने भावयतीत्येव वाच्येऽन्यथावचनं यथार्हं प्रक्रियादिभिर्बालानुग्रहार्थं छन्दोनुग्रहार्थं च । एवकारश्च पौन[२]र्वचनिकः । परस्मैपदाद्येव चात्र विवक्षितं, नतु लडेकवचनाद्यपि । तथा च सूत्रे लिङ्गवचनाद्यप्रामाण्यमविवक्षात' इति न्यायविदः । 'ज्ञ[३]पयतिपदवत् ज्ञापयेदित्यपि स्याद्' इत्यादिभिन्नलकारनिर्देशश्चैवमेव युज्यते । णिच्चेह चुरादिणिच् । तङ् च 'तङानावात्मनेपदम्' (१-४-१००) इत्युक्तस्य भावयमान इत्याद्यानस्याप्युपलक्षणम् । एतच्च सर्वं बालानुग्रहादिकं यथायोगमुत्तरेष्वप्युन्नेयम् । प्राप्ताविति । अत्र तावद् 'आधृषाद्वा' इति चुरादौ पठ्यते । 'युज पृच संयवन' इत्याद्या 'धृष प्रसहन' इत्यन्ता धातवो विकल्पेन णिचमुत्पादयन्तीत्यर्थः । 'भू प्राप्तावात्मनेपदी' इति युजादौ । भू इत्ययं धातुः प्राप्तौ वा णिचमुत्पादयति, आत्मनेपदी चेत्यर्थः । अत्र च यद्यप्यात्मनेपदस्य णिच्सन्नियोगशिष्टत्वाण्णिजभावपक्षे 'सन्नियोगशिष्टानामेकतरापायेऽन्यतरस्याप्यपाय' इति न्यायेन परस्मैपदमेव युक्तं, तथापि भवत इत्यात्मनेपदं वदन् एतन्मन्यते--यदाह मैत्रेयरक्षितः--'आ कुस्मादास्मनेपदीति प्रकरणे भू प्राप्तौ वेति वक्तव्ये आत्मनेपदीति वचनं केवलाण्णिजन्तादप्यात्मनेपदं यथा स्याद्' इति ।


  1. कैयटोक्त्या निर्वाहाद् उक्तभाष्यस्योपपत्तिवर्णनात्.
  2. प्राप्तिरूपार्थपुनर्वचनवशायातः । पादपूरणार्थो न त्ववधारणार्थ इति तात्पर्यम् । एव साम्येऽवधारणे । पादपूरणकृच्चायम्' इति वैजयन्ती.
  3. इदमष्टमश्लोके.