सत्तायां भवति प्राप्तौ णिचि भावयते तङि ।
भवते शपि तत्रैव भावयत्यवकल्कने ॥ ३ ॥
तत्र च [१]सत्ताशब्देन सच्छब्दवाच्यं महान्तमात्मानं 'वृद्धिरादैज्' इति वृद्धिशब्देनेव वृद्धिमादावनुस्मरता प्रकरणारम्भोपयोगि मङ्गलमप्याचरितं मन्तव्यम् । उक्तं च भर्तृहरिणा--
'सम्बन्धिभेदात् सत्तैव भिद्यमाना गवादिषु । |
इति । यदा तु 'सच्चिदि'त्यादिना वा बहिरेव वा प्रागेव मङ्गलमाचरितं, तदात्र सत्ताशब्दस्य माङ्गलिकत्वं मा वा भूद्, भवतु वा कामं फलभूयस्त्वाय । एवं मध्येऽपि 'सिध्ये[२]त्' 'ज[३]येद्' इत्यादिभिरन्ते[४]ऽपि वृद्धिभाषाशब्दाभ्यां मङ्गलाचरणं कामं व्याख्येयं, 'वाग् वाणी भारती भाषा' इति भाषाशब्दस्यापि भगवत्याः सरस्वत्या वाचकत्वात् । सर्वथापि धातूनामनेकार्थत्वाद् मृदः कुम्भो भवति, भावयेज्ज्योतिरान्तरम्' (ध्यायेदित्यर्थः) इत्यादावभूतप्रादुर्भावादिष्वप्ययं भूर्भवति । त[५]च्च 'कुर्द खुर्द गुर्द गुद क्रीडायामेव' इत्येवकाराद्, 'यमो गन्धने (१-२-१५) इत्यादौ चोपरमादिभ्योऽर्थान्तराभिधानस्य बहुलमुपलम्भाद्, 'अञ्चोऽनपादाने (८-२-४८) इत्यत्र च 'अनेकार्था धातवो भवन्ति' इति भाष्याद्, “धातुपाठे तु क्रियावाचित्वप्रदर्शनपरोऽर्थनिर्देशः, न तु नियमार्थः, तथा च 'कुर्द खुर्द गुर्द गुद क्रीडायामेव' इत्येवकारः पठित" इति