पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
पुरुषकारोपेतम् ।

नुरुन्ध एवेत्यभिसन्धिः । तथा चात्रैवानुष्टुब्बन्धान्तराले 'जा[१]नातीति श्नि सिध्येद्' इत्यादिवृत्तान्तरप्रवेशोऽपि दृश्यते । वृत्तरत्नाकरादिवद्वा वृत्तशब्दः पद्यमात्रपर इति यथोक्तनिर्वाहालसैराश्रीयताम् । अथ किमर्थं धातुवृत्तिकारादिवचनभङ्गीं विलङ्घ्य वृत्तेन वचने भवान् आभिनिविशते; एवं च क्वचित् क्वचित् पादपूरणाय पदविन्यासप्रयासोऽपि परिहृतो भवतीत्यत उक्तं न विनेति । अत्रापि यथोपक्रमं वृत्तेनेत्येव वक्तव्ये बन्धग्रहणं बन्धविशेषभूषितस्यैव वृत्तस्य वस्तुनः सुग्रहत्वे हेतुत्वात् । एवं च 'वृत्तेन वक्ष्यते' इत्यत्रापि वृत्तबन्धेनेत्येवार्थः पर्यवस्यति । [२]ग्रहिश्चात्रावधारणपर्यन्ते ग्रहणे वर्तते । अथ यत्र संहितया पाठे वाक्यभेदो दुर्ग्रहो भवति यथा--'ए[३]ओङैऔज्झयवरलण्ञमङणनंझभञ्घढधष्' इत्येतस्मिंश्चन्द्रगोमिभोजदेवयोर्गद्य[४]पद्यसाधारणे सूत्रपाठे, तत्र पद्यबन्धे सति वस्त्वपि वाक्यार्थात्मकं गद्यबन्धवदर्थवशादन्तरान्तरा विच्छिद्य पाठस्यासम्भवाद् दुर्ग्रहमेव; दूरत एवावधारणम्; गद्यबन्धे च सति तत्सम्भवात् सुग्रहमेवेत्यभिप्रायेणोक्तं प्रायेणेति । तदनेनासकृत्पाठफलस्यैकीकृत्याकृच्छ्रेण ग्रहणमस्य प्रकरणस्यासाधारणं प्रयोजनमिति दर्शितं भवति ॥

 तदेवं करिष्यमाणं वस्तु सप्रयोजनमुपक्षिप्य तत्रापि 'भू सत्तायाम्' इति धातुपाठे प्रथमपठितं भूधातुं मङ्गलं चावलम्ब्य पुनःपाठफलं ब्रुवन् प्रकरणमारभते--


  1. इदमष्टमश्लोके.
  2. 'गृहीतिश्चा' इति गपुस्तके पाठः.
  3. एषा षट्सूत्री संहितया पाठे जातिर्भवति ।'हयवरट्' 'लण्' इति पाणिनिसम्मतसूत्रयोश्चात्र 'हयवरलण्' इत्येकीकरणं बोध्यम् .
  4. यथासङ्ख्यमत्र न विवक्षितम्.