पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दैवं

सकृदपि स्मृतिः सकलकामधेनुर्भवति, किं पुनस्तस्य निरन्तरानुसन्धानमिति सूचितम् । तच्च मङ्गलाचरणभूयस्त्वादभिमतफलभूयस्त्वायैवेत्येषा दिक् ।

 येऽप्येतत् पद्यं न पठन्ति, तन्मतेऽपि वृ[१]त्तिकारादिवत् प्रबन्धाद् बहिरेव मङ्गलाचरणं बोद्धव्यम्, 'मङ्गलाचारयुक्तानाम्' इत्य[२]विशेषेण स्मरणात् । अपिचास्मिन्नपि पक्षे 'स[३]त्तायां भवति' इत्यत्रैव महन्मङ्गलमाचरिष्यतीति न किञ्चन दुष्यति ॥

 सर्वथापि तावत् प्रेक्षावत्प्रवृत्तिसौकर्यार्थं करिष्यमाणं वस्तु निर्दिशन् प्रकरणस्य प्रयोजनं दर्शयति--

पठितस्य पुनः पाठे फलं वृत्तेन वक्ष्यते ।
न विना वृत्तबन्धेन वस्तु प्रायेण सुग्रहम् ॥ २॥

 इति । एकस्यैव धातोरसकृत् पाठे यत् फलं, तत् तत्रतत्र

तत्तद्ग्रन्थकारैरुक्तमप्यस्माभिरेकीकृत्य वृत्तेन वक्ष्यते । यद्यपि च 'धू[४]नयति धवति धवते' इति जात्यापि वक्ष्यते, तथापि 'भूयसा व्यपदेशो मल्लग्रामवद्' इति न्यायेन वृत्तेनेत्युक्तम् । तत्र च वर्णच्छन्दो वृत्तं, मात्राच्छन्दो जातिः । यद्येवं पद्येनेत्येव मुक्तकण्ठमुच्यतां; मुच्यतामयं भूयसा व्यपदेशक्लेशः । सत्यम् । वृत्तसौभाग्यात् पुनः पद्यप्रबन्धः श्लाघ्यतरो भवतीत्यभिप्रेयते । तथा चाचार्यदण्डिना दर्शितं--'श्रव्यवृत्तैः सुसन्धिभिः' इति । वृत्तबन्धान्तराले त्वार्याप्रवेशः स्थायिरसान्तर इव सञ्चारिरसप्रवेशश्चम्पकमालान्तराल इव च नीलपलाशप्रवेशो रसिकानां मानसम


  1. काशिकाकारादिवत्.
  2. मङ्गलं प्रबन्धाग्रे निवेशनीयमिति विशेषविरहेण.
  3. इदं तृतीयश्लोके.
  4. इदं षड्विंशश्लोके.