पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पुरुषकारोपेतम् ।

वात्; प्रतीचस्तु जीवरूपमेव मिथ्या, चिद्रूपं तु परमात्माव्यतिरेकात् सत्यमेवेति । अनेन च वैलक्षण्येन यथोक्तस्य वस्तुनः पुरुषार्थतैव पूर्ववत् समर्थिता; प्रतीचो हि जीवात्मनः परमात्मव्यतिरेके विश्वकोटिनिविष्टतया सोऽपि मिथ्यैव स्यादिति कस्यायं परमात्मभावः पुरुषार्थो भवेत्, 'फल्यभावे फलं कुत' इति न्यायात् । अ[१]नेनैव च सामानाधिकरण्येन साक्षिब्रह्मणोस्तात्त्विकैक्यकथनार्थेन 'अहं ब्रह्मास्मि' इति चित्तवृत्तेर्मिथ्यात्वविनिवृत्तये तत्त्वज्ञानतापि विज्ञापिता । यद्यपि[२] तस्मिन् प्रतीचीत्यनेनैव सामानाधिकरण्येन जीवब्रह्मणोरैक्यं शक्यमवसातुं, तथापि

यथा परमात्मशब्दाद् ब्रह्मावगमः सुकरतरो भवति, न तथा तच्छब्दात् । नित्यप्राप्तस्याप्यविद्यावशाद् विस्मृतपाणिमाणिक्यवदप्राप्तस्य प्राप्तौ चित्तवृत्तिरित्यादिना तत्त्वसाक्षात्कारात्मकमायासविमुक्तं साधनमुक्तम् । परमित्यनेन च सदित्यादिना दर्शितस्य निरतिशयोत्कर्षस्य प्रतिपत्त्यवस्थायामप्यनुवृत्तिरावेदिता, त[३]द्विषयाया एव विद्याया अविद्योत्पाटनपाटवात् । एवं च निरतिशयानन्दसाक्षात्कारात्मकतया स्वविषयस्येव स्वयमपि पुरुषार्थत्वमस्याश्चित्तवृत्तेर्न त्वविद्यानिवृत्तेरेवेत्यप्यादर्शितम् । तदहो तत्त्वविद्याया माहात्म्यं, यत् [४]स्वसाध्यवत् स्वयं च स्वविषयश्च पुरुषार्थभूयमेवावगाहते । अनिशमित्यनेन पुनरर्वाचीनं रसास्वादमवधीर्य परस्यैवास्य रसस्य रसिकास्वाद्यता द्योतिता । यस्य हि तत्त्वस्य


  1. 'प्रतीचि परमात्मनी'त्येवंरूपेण.
  2. 'द्यपि च' इति गपुस्तके पाठः.
  3. निरतिशयोत्कर्षगोचरायाः.
  4. अविद्यानिवृत्तिवत्.