रजताधिष्ठानत्वमिव शुक्तेः । शेषं पुनः स्वरूपलक्षणं यथा शुक्तेरेवासाधारणं रूपम् । तत्र सुखं तावत् पुरुषार्थ एवेति सुप्रसिद्धम् । चिच्छब्देन तु तस्यैव साक्षात्कारः स्वयंप्रकाशतया प्रकाशितः । सुखानुभवो हि पुरुषार्थः । स चैकरसत्वेनाद्वैतत्वेन स्वयम्प्रकाशतयैव पर्यवस्यति, अपरथा प्रकाशान्तराभावेनाननुभवादपुरुषार्थतापातात् । यद्यपि 'सुखं मे स्याद्' इत्येव पुरुषार्थं पुरुषा अर्थयन्ते, न तु सुखमहं स्यामिति, तथापि सांसारिकस्य सुखस्य जडाजडाकारद्वयकरम्बितस्य जडाकारसाक्षात्कारनान्तरीयकतया भेदसंभेदोऽपि पुरुषार्थकोटिनिविष्ट इवावभासते । मोक्षसुखस्य तु साक्षात्काराय स्वयंप्रकाशतैव भगवती प्रभवतीति किमपरमपेक्ष्यत इति कृतमेतेन भेदतपस्विना । सच्छब्देन पुनः सैवेषा पुरुषार्थता समर्थिता । यदि खल्वेवंविधमपि सुखं विश्ववन्मिथ्यैव स्यात्, तदा तदपि पुरुषार्थाभास एव भवेद्; न च भवेत् प्रेक्षावतां प्रवृत्तिपात्रम् । आत्मनः खल्वत्यन्तोच्छेदाद्वरं संसार एवानशनादिव कदशनम् । एकरसशब्देन तु तस्यैव सुखस्य दुःखासम्भिन्नता प्रदर्शिता; सच्चित्सुखैकरसमेव तद्वस्तु, न पुना रूपान्तरमन्यथान्यथावभासमानस्याप्यस्यास्तीत्यद्वैतात्मकतयाकुतोभयता च । तथा च श्रूयते--य[१]न्मदन्यन्नास्ति । कस्मान्नु बिभेमि' इति । 'कस्माद्ध्यभेष्यद् द्वितीयाद्वै भयं भवति' इति च । यद् भयं भवति तद् द्वितीयादेवेत्यद्वैते भयस्य न सम्भावनापीत्यर्थः । वस्तुशब्देन पुनर्वक्ष्यमाणाविद्यावृ[२]त्तप्रतिपत्तिसौकर्योपयो