पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

श्रीगणेशाय नमः।

देवप्रणीतं दैवं

कृष्णलीलाशुकमुनिकृतपुरुषकाराख्यव्याख्योपेतम् ।


सच्चित्सुखैकरसवस्तुनि यत्र विश्वं
मिथ्यैव रूप्यमिव राजति शुक्तिभित्ते ।
तस्मिन् प्रतीचि परमात्मनि चित्तवृत्ति-
र्ब्रह्माहमस्मि परमित्यनिशं ममास्तु ॥ १ ॥

गा[१]श्च विबुधांश्च भूमौ पालयितुं किमपि कृतपदन्यासम् ।
आपादचूडमिदमिदमभ्यस्यत दैवमद्भुतं भोभोः ॥


  1.  अथ महावैयाकरणः श्रीकृष्णलीलाशुकमुनिर्दैवग्रन्थस्य व्याख्यां पुरुषकाराख्यामारिप्सुर्मङ्गलसिद्धये स्वेष्टदेवतां श्रीकृष्णं, प्रेक्षावत्प्रवृत्त्यङ्गप्ररोचनीयग्रन्थविषयप्रयोजनाभिधानाय दैवग्रन्थं च विशिष्टरूपमनुसन्धत्ते गा इति । भोभोः शिष्या इति शेषः । सम्बोध्यावधानाय द्विरुक्तिः । गाश्च नन्दगोपसम्बन्धिनीर्धेनूश्च विबुधांश्च कंसादिव्यतिक्रमक्षीणक्षेमान् देवांश्च पालयितुं रक्षितुम् भूमौ भूलोके कृतपदन्यासम् अवतीर्णम् किमपि गुणैरीदृक् तादृग् इति परिच्छेत्तुमशक्यम् आपादचूडमद्भुतं पादादिचूडान्तेष्वङ्गेष्वेकशो निर्वर्ण्यमानं रूपधेयादनुभावाच्चाश्चर्यजनकम् इदमिदं मच्चित्तसन्निहितं, यदेव चित्ते सन्निधापयितुं मननापरपर्यायाभ्यासपरिश्रमः श्रेयस्कामैः करणीयः, मया च कृतः, तदिदमेवेत्यर्थः । द्विरुक्तिरादरार्था । दैवं (प्रज्ञाद्यणा) देवं, विशिष्टदेवत्वस्य देवतान्तरागोचरत्वाच्छ्रीकृष्णमिति यावत् । अभ्यस्यत मद्वन्मननपरिपाट्या साक्षात्कुरुतेति स्वयं सविकल्पकसमाध्यासादितभगवत्साक्षात्कृतिकृतार्थस्य ग्रन्थकर्तुरेष कृपया ग्रन्थपठितॄन् प्रत्युपदेशः ।