पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥
पुरुषकारे स्मृतानि व्याकरणेतरग्रन्थवाक्यानि.


पृष्ठम्
३. 'मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।

जपतां जुह्वतां चैव विनिपातो न विद्यते ॥' (मनुस्मृतिः ४ अ.)

५. 'यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति' । 'कस्माद्ध्यभेष्यद् द्वितीयाद्वै भयं भवति' (बृहदारण्यकं १ अ. ४ ब्रा. २ म.)
६. 'पूर्णमेवावशिष्यते' (ईशोपनिषत् १ मन्त्रम्)
" 'अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य' (ब्रह्मसूत्रशाङ्करभाष्यं समन्वयाधिकरणम्)
७. 'फल्यभावे फलं कुतः'
८. 'श्रव्यवृत्तैः सुसन्धिभिः' (काव्यादर्शः १ परि. १८ श्लो.)
१०. 'वाग्वाणी भारती भाषा' (वैजयन्ती)
" 'भावयेज्ज्योतिरान्तरम्'
१२. 'मनोरमा भा भवते'
" 'स राष्ट्रमभवत्' (यजुर्वेदब्राह्मणम् १ अष्ट.७ प्रश्न. ७ अनु.)
१४. 'यच्छति प्रियतमे रभसेन' (किरातार्जुनीये 'यच्छति प्रतिमुखं दयि

ताया' इति, 'चुम्बति प्रियतमे रभसेन' इति च दृश्यते)

" 'शर्म यच्छत द्विपदे चतुष्पदे' (७ अष्ट. ८ अ. १३ व. ५ ऋ.)
१७. 'विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम्' (जै.सू. १अ. ३पा. ३सू.)
२३. 'पाञ्चाल्याः पद्मपत्राक्ष्याः स्नायन्त्या जघनं धनं ।

याः स्त्रियो दृष्टवत्यस्ताः पुंभावं मनसा ययुः ॥' (भारतम्)

" 'उष्णीषं स्नायतेः' (यास्कनिरुक्तम्. उत्तरषट्कं ७ अ. ३ पा. ७ ख.
२४. 'पञ्चबाणः क्षिणोति'
२५. 'जिगादुपज्रयति गोरपीच्यम्' (७ अष्ट. २ अ. २५व. ५ ऋ.)
२६. 'उदयति दिननाथे याति शीतांशुरस्तम्'
२७. 'संस्फेटस्तुमुलं युद्धम्' (अमरकोशः)