पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दैवम् ।

सञ्चूर्णने चुरादेर्णौ मोटयेदतङस्त्रयः ।
हिंसातिक्रमयोरट्टेरट्टतेऽनादरेऽट्टयेत् ॥ ७२ ॥

घट्टयेद् घट्टते द्वे स्तां चलने णौ शपि क्रमात् ।
णौ लोटयति भाषार्थे लुट्येल्लोटति लोटने ॥ ७३ ॥

लोटते प्रतिघातेऽर्थे स्तेये लुण्टति लुण्टयेत् ।
रोटते प्रतिघातेऽर्थे रोषे रोटयतीति णौ ॥ ७४ ॥

कूटयेताप्रसादे णौ कूटेर्दाहे तु कूटयेत् ।
भाषासंसर्गसंश्लेषे पोटयेत् पुटयेत् पुटेत् ॥ ७५ ॥

नृतौ नटत्यवस्पन्दे चुरादेर्णिचि नाटयेत् ।
भाषार्थे पाटयेद् ग्रन्थे पटयेद् गमने पटेत् ॥ ७६ ॥

वण्टयेद्वण्टतीत्येते णिशपोः स्तां विभाजने ।
णावदन्ताद्वटेर्ग्रन्थे वटयेद्वेष्टने वटेत् ॥ ७७ ॥

श्लेषालस्योपघातेषु प्रतिघाते क्रमाल्लुठेत् ।
लुण्ठेल्लोठति लोठेत किन्तु गत्यां च लुण्ठति ॥ ७८ ॥

रुण्ठतीति गतौ रोठेदुपघातेऽथ कण्ठते ।
शोके यौ कण्ठयेत् कण्ठेत् कठेत् स्यात् कृच्छ्जीवने ॥ ७९ ॥

गतिप्रतिहतौ शोठत्यालस्ये शोठयेदिति ।
शुण्ठयेच्छुण्ठतीत्येवं शोषणे णौ शपि क्रमात् ॥ ८० ॥

शठयेच्छूठयेदेते द्वे सम्यगवभाषणे ।
गत्यसंस्कारधात्वर्थे शाठयेच्छ्वाठयेदिति ॥ ८१ ॥

कैतवे शठतीति स्याच्छ्लाघायां शाठयेत णौ।
मण्ठते शपि शोकार्थे मठेन्मदनिवासयोः ॥ ८२ ॥

वण्ठते त्वेकचर्यायां स्थौल्ये शपि वठेदिति ।
मुण्डते मार्जने मुण्डेः खण्डने शपि मुण्डति ॥ ८३ ॥

भूषार्थे मण्डतीति स्यात्तत्र मण्डयतीति णौ ।
मण्डते वेष्टने स्तुत्यामीट्टे तत्रेडयेण्णिचि ॥ ८४ ॥