पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दैवं

धर्जेद् ध्रञ्जेद् ध्रजेद् ध्रञ्जेद् ध्वजेद् ध्वञ्जेद्गतौ शपि ।
शौचालङ्कारयोर्वा णौ मृजेर्मार्जति मार्जयेत् ॥ ६० ॥

मार्ष्टि शुद्धौ तथा मार्जेः शब्दार्थान्मार्जयेण्णिचि ।
वेवेक्तीति पृथग्भावे वेविक्ते च भये पुनः ॥ ६१ ॥

विनक्ति विजते सर्गे सृज्यते सृजतीति च ।
ऋञ्जते भर्जने गत्याद्यर्थे स्यादर्जते त्वृजेः ॥ ६२ ॥

प्रतियत्नेऽर्जयेदर्जेरर्जतीत्यर्जने पदम् ।
निङ्क्ते नेनेक्ति नेनिक्ते शौचेऽर्थे पोषणे तथा ॥ ६३ ॥

युनक्ति युङ्क्ते योगार्थे समाधौ युज्यते श्यनि ।
युजेः संयमनार्थे वा णौ योजयति योजति ॥ ६४ ॥

भुजेद् भुनक्ति भुङ्क्ते स्युः कौटिल्ये पालनेऽदने ॥ ६४ १/२ ॥

सेवायां भजते भजेदिति भजेर्विश्राणने भाजये-
दामर्दे तु भनक्ति भाजयति णौ भाजेः पृथक्कर्मणि ।।
भाषार्थे णिचि भञ्जयेदभिहिते त्वर्थे पदं तुञ्जये-
द्धिंसायां शपि तुञ्जतीत्यनिदितस्तस्यां तुजेस्तोजति ॥ ६५ १/२ ॥
.
सन्तर्जने तर्जयते भर्त्सनार्थे तु तर्जति ॥ ६६ ॥

वर्णे पिङ्क्ते भवेत् पिञ्जेर्भाषार्थे पिञ्जयेदिति ।
गुञ्जेदव्यक्तशब्दे स्याच्छब्दमात्रे गुजेदिति ॥ ६७ ॥

भृज्जते भृज्जति भ्रस्जेर्भर्जने भर्जते भृजेः ।
प्रकाशे लजयेद्रीळे लजते लज्जते पदे ॥ ६८ ॥

लञ्जेल्लाञ्जेल्लजेल्लाजेदित्येते भर्त्सने शपि ।
भङ्गे रुजति हिंसायां रोजयेदिति णौ रुजेः ॥ ६९ ॥

घाटयेद् घण्ट्येत् सङ्घभापयोर्घटते मितः ।
क्रमाद्विकासे शशपोः स्फुटति स्फोटते पदे ।। ७० ।।

स्फोटयेत् स्फोटतीति द्वे भेदे विशरणे क्रमात् ।
प्रमर्दने चाक्षेपे च मुटेदाद्ये तु मोटति ॥ ७१ ॥