पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दैवं

स्तृञः श्निच्छादने प्वादेः स्तृणीते च स्तृणाति च ।
श्नावृदन्तस्य तत्रैव स्तृणोति स्तृणुते स्तृञः ॥ ३५ ॥

दरेद् दृणाति द्रियते क्रमाद् भीदारणादरे ।
पृणाति पूरणे श्लौ तु पिपर्ति णिचि पारयेत् ॥ ३६ ॥

वॄवॄञोरञितो धातोर्वृणाति वरणे भवेत् ।
वृणाति च वृणीते च वृञस्तत्रार्थ इप्यते ॥ ३७ ॥

सिद्धे पदद्वये वॄञो ञित्त्वाद्यदञितो वचः ।
फले तत्कर्त्रभिप्राये परस्मैपदसिद्धये ॥ ३८ ॥

जृणाति जीर्यति जरत्येकार्थे जारयत्यपि ।
कृणन् कृणीते हिंसायां विक्षेपे किरतीति शे ॥ ३९ ॥

तृप्तौ चकेत् प्रतीघाते तृप्तौ च चकते शपि ।
(प्रतीघाते च तृप्तौ च चकते चकतीति तु ।
तृप्तिमात्रे चकेरस्य मित्त्वाच्चकयतीति णौ ॥)
दर्शने लोकते लोकेर्भाषार्थे णौ तु लोकयेत् ॥ ४० ॥

अङ्क लक्षण इत्यस्य भवेदङ्कयतीति णौ।
इदितस्त्वङ्कते तत्र कुटिलायां गतावकेत् ॥ ४१ ॥

णिचि बुक्कयतीति स्यात् भाषणे शपि वुक्कति ।
मर्षणे शीकयेच्छीकेत् सेचने शपि शीकते ॥ ४२ ॥

शङ्कते शकि शङ्कायां शक्तौ शक्नोति मर्षणे ।
शक्यते शक्यतीत्येवं शपि श्नौ श्यनि च क्रमात् ॥ ४३ ॥

तकेत् तङ्केद्यथासङ्ख्यं हसने कृच्छ्रजीवने ॥ ४३ १/२ ॥

अन्वेषणेऽर्थे मृगयेत णौ यौ मार्गेर्भवेन्मार्गति मार्गयेच्च ।
लिङ्गेर्गतौ लिङ्गति लिङ्गयदित्यस्यैव चित्रीकरणार्थवृत्तेः ॥ ४४ १/२ ॥

भाषणे लङ्घयेच्छोषे लङ्घेद्गत्यां तु लङ्घते ॥ ४५ ॥

सेचने सचते तच्च समवाये सचत्यपि ।
णौ लोचयति भाषार्थे दर्शने शपि लोचते ॥ ४६ ॥