पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीः।

दैवम् ।


सच्चित्सुखैकरसवस्तुनि यत्र विश्वम्
 मिथ्यैव रूप्यमिव राजति शुक्तिभित्ते ।
तस्मिन् प्रतीचि परमात्मनि चित्तवृत्ति-
 र्ब्रह्माहमस्मि परमित्यनिशं ममास्तु ॥ १ ॥

पठितस्य पुनःपाठे फलं वृत्तेन वक्ष्यते ।
न विना वृत्तबन्धेन वस्तु प्रायेण सुग्रहम् ॥ २॥

सत्तायां भवति प्राप्तौ णिचि भावयते तङि ।
भवते शपि तत्रैव भावयत्यवकल्कने ॥ ३ ॥

दाञो दत्ते ददातीति दाणो यच्छति दो द्यति ।
दाति दायति दाप्दैपोर्दयते रक्षणे ङितः ॥ ४ ॥

गाते गाङो गतावर्थे कै गै शब्देऽस्य गायति ।
पाने पिबति रक्षायां पाति पायति शोषणे ॥ ५ ॥

धेटो धयति पानार्थे धाञो धत्ते दधात्यपि ।
द्रै स्वप्ने द्रायति द्राति कुत्सिते गमने लुकि ॥ ६ ॥

शब्दसङ्घातयोर्धात्वोस्स्त्यायत्येकस्य सो न षः ।
सै क्षये सायतीतीष्टमन्तकर्मणि तु स्यति ॥ ७ ॥

जानातीति श्नि सिध्येज्ज्ञपयति तु पुनर्मारणादौ घटादे-
श्चौ मित्वेऽपीदमेव ज्ञप मिदिति पदं ज्ञापने मारणादौ ।
तेनार्थाज्ज्ञापनेऽर्थे ज्ञपयतिपदवद् ज्ञापयेदित्यपि स्या-
दुक्तस्योक्तिर्णिचश्चेत्युदितविहतये ज्ञापयेद् ज्ञो नियोगे ॥ ८ ॥

मिमीते मायते माने माति तत्रैव शब्लुकि ।
मयते प्रणिधानेऽर्थे श्राति श्रायति लुक्छपोः ॥९॥