इति न्यायात् प्रसिद्ध एव देवादौ तत्तत्कार्यप्रवृत्तेर्नाम्नि तयोरप्र- वृत्तम् । अत एव च देवनाम्नेत्युक्तम् । तथा च 'बाह्वादिभ्यश्च' (४-१-९६) इत्यत्र भाष्यं-बाहोरपत्यं बाहविः । यो हि बाहु- र्नाम बाहवस्तस्य भवति' इति । यदि पुनर्भक्त्यादिवशात् प्रसि. देवत्वारोपेणैवात्र देवशब्दः प्रवर्तितो भवेत्, तदापि तस्य विकार इत्यस्यां विवक्षायां 'देवस्य यञञौ' इति वार्तिकेनाञि कृते रूपमेतद् भविष्यति । तथा च - 'दैवो विस्तरशः प्रोक्तः इति भगवान् कृष्णः । तथैव च 'गहादिभ्यश्च' (४-२-१३८) इत्यत्रामुमेव प्रयोगं सुधाकरः समर्थयाम्बभूव । 'अपवादविषये कचिदुत्सर्गस्यापि समावेश' इति ब्रुवतः परमेश्वरभोजदेवस्य मतेनाणैवोप्यविकलमभिमतं सम्पद्यते । भाष्यकारवचनप्रामा- ण्याद्वा सिद्धम् । तथा हि 'पृषोदरादीनि यथोपदिष्टम्' (६-३- १०९) इत्यत्र भगवान् पतञ्जलिबर्भाषे-'नूनमस्य दैवोऽनुग्रह' इति ॥
उक्तानुक्तदुरुक्तानि स्थाने स्थाने विविञ्चता । |
इति श्रीकृष्णलीलाशुकमुनिविरचितो
दैवसहायः पुरुषकारः
समाप्तः।
१. तयोः कुक्छयोः अप्रवृत्तं प्रवृत्त्यभावः । क्तो भावे. २. अक्लिष्टमि-
त्यर्थः । अम्पक्षे हि विकारत्वं कृतत्वे नेतव्यम् . ३. दैव इति देवसम्बन्धीत्यर्थः.