पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
दैवं

सन्तुक्तास्तेऽपि चात्रोक्ता
न दुष्यन्त्यन्यसम्भवे ॥२०॥

  अत्र च अत्रेत्येतत् पूर्वार्धेऽप्यर्थादुत्तरार्धादन्वेति । अत्रो- क्ता अनुक्ता अपि च सन्तु नाम । तथाप्यधिकसम्भवमात्रेणो- क्तास्तावन्नैव दुष्यन्तीति । 'पठितस्य' (२ श्लो) इति प्रतिज्ञाप्येवं यथोक्तविषये भविष्यतीति न किञ्चन दुष्यतीति भावः । तत्र च सन्तूक्ता न दुष्यन्तीत्येतावत्येव वक्तव्ये 'उक्तास्तेऽपि च' इत्य- धिकवचनं त्वयापि 'अनुक्ता अपि' इति ब्रुवतोक्ता अप्यभ्युप- गता एवेत्येवम्परम् । न्यायश्चायं प्रपञ्चभयादिनास्मदनुक्तेष्वपि तत्चदनुबन्धकार्यादिषु वक्तव्यशेषेषु द्रष्टव्यम् ॥

इत्यनेकविकरणसरूपधातुव्याख्यानं देवनाम्ना
विरचितं दैवं समाप्तम् ।

  ऐकरूप्येण वा सादृश्येन वा सरूपाणां यथोक्तानां धा- तूनां यथोक्तेनैव विकरणादिकृतेन रूपभेदेनार्थभेदेनोभयेनापि वा पुनःपाठफलोक्त्या व्याख्यानमित्यर्थः । करणे ल्युट् । अत्र च वक्ष्यते (२ श्लो) इत्युपक्रम्यापि व्याख्यानमित्युपसंहारः प्रकर- णस्य श्लाघ्यतातिशयोपदर्शनपरः। देवमिति (च?) तस्येदम्' (e- ३-१२०) इति वा, 'कृते ग्रन्थे' (४-३-११६) इति वा देवादणि दैवमिति रूपम् । कृतवाद्येव च विरचितशब्देना (प्यु?)णुपद- र्शितः। एवं तु देवकीयमिति प्राप्नुयात् (गर्तोत्तरपदा गच्छ ?)

'अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः।
शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ।'

१. अस्य स्थाने 'गर्वोत्तरपदाच्छः (४-२-१३७) गहादिभ्यश्च(४-२-१३८)

इति कुक्छयोः प्रसङ्गात्' इति पठनीयं भाति. २. एष परिहारग्रन्थः.