पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२०
दैवं

दिसूत्रे सुधाकरेण- “कसि गतिशासनयोरिति पारायणिकैरुदाहारि कंस्ते कंस इति । 'प्रतिष्कशश्च कशेः' (६-१-१५२) इति च कश गतीत्येवायमाम्नायि” इति । 'कसेत्येके' इति च क्षीरस्वामी । 'गृ विज्ञाने' इत्यत्र च स एवाह-- 'कसि गतिशासनयोरितीकारान्तोऽकारान्तः शकारान्तश्च पठ्यते' इति । तदा कस्ते कष्टे इत्यपि द्रष्टव्यम् । 'कस गतौ ॥

 शब्दे शपि रसेत् स्नेहास्वादयो रसयेद्रसेः ।

'रस शब्दे' । [१] रासेस्तु तङि रासते । रस आस्वादनस्नेहनयोः' । कथादिः ॥

 प्रपूरणे दोग्धि दुग्धे दोहतीत्यर्दने दुहेः ॥ १९३ ॥

  'दुह प्रपूरणे'। अदादिः । तच्च दोहनाख्यं रेचनम् । प्रतिष्ठत इतिवद् धात्वर्थवैपरीत्ये प्रः । 'तुहिर् दुहिर् अर्दने' । 'तुहिर् उहिर् इत्येके' इति मैत्रेयरक्षितः। क्षीरस्वामी त्वेवमेव पठित्वाह'-- तुहिर् दुहिर् इति दौर्गाः' इति ॥

 ण्यन्तस्य ग्रहणे गृहेगृहयते तत्रानदन्ताद् गृहे-
 र्भूवादेः शपि गर्हते श्नि तु पदे गृह्णात्यगृह्णीत च ।
 गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत् तथा गर्हयेद्
 भूवादेः शपि कुत्सनार्थविषये गर्हेर्भवेद्गर्हते ॥ १९४ ॥

  गृह ग्रहणे' । पदादिः । 'गृहू ग्रहणे' । अनुदात्तेत् ।

अनदन्ताद् गृहेरित्यनेनैव पूर्वस्यादन्तत्वमात्रं विशेषो गृ(ही?)हित्वं (च?) चाविशिष्टमिति दर्शयता मन्दानां ग्रहपाठशङ्का(विति?)पि निरवकाशतां नीता । 'ग्रह उपादाने । गर्ह निन्दने ।


  1. 'णामृ रासृ शब्दे' इति पठितस्य.