धृषेः प्रसहने यौ स्तां धर्षयेद् धर्षतीत्युभे ॥ १८१ ॥
प्रागल्भ्यार्थे तु धृष्णोति परस्मैपदिनावुभौ ॥ १८१½ ॥
'धृष प्रसहने' । 'धृषा प्रसहन' इति शाकटायनः । 'ञिधृषा प्रागल्भ्ये' । स्वादिः ॥
आलोचनार्थाण्णिचि लक्षयेत |
'शम लक्ष आलोचने' । चितादिः । 'लक्ष दर्शनाङ्कनयोः' । अत्र मैत्रेयरक्षितः-- 'स्वरितेत्त्वमस्य केचित् प्रतिपद्यन्ते । एतच्च ज्ञापकं चुरादिण्यन्ताद् 'णिचश्च' (१-३-७४) इत्यात्मनेपदं न भवतीत्यत्र' इति । हरदत्तस्तु णिचश्च' इत्यत्राह-
'एष विधिर्न चुरादिण्यन्तात् म्यादिति कश्चन निश्चुनुते स्म । |
इति ॥
स्यात् तक्षतीति त्वचनेऽथ वा श्नौ |
'तक्ष त्वचने' । अत्र क्षीरस्वामी-'त्वचनं त्वचो ग्रहणम् । संवरणमिति दुर्ग' इति । यथादुर्गमेव च धनपालशाकटायनौ । अयं चार्थः 'त्वच संवरण' इति धातुपाठसिद्ध इत्यन्तरङ्गः । [१]अन्यस्तु 'सत्यापपाशे' (३-१-२५) त्यत्र त्वचं गृह्णातीति णिचि कृद्वृत्तिसिद्ध इति बहिरङ्गः । णिच्कल्पनं चात्रातिरिच्यते । [२]त्वक्षेत्येव तु बह्वनुमतः पाठः । तथा च 'तनूकरणे तक्षः'
(३-१-७६) इत्यत्र वृत्तिः । 'धातूनामनेकार्थत्वाद् विशेषणोपादानमिति । यदि हि त्वचनेऽपि तक्षतिः स्यात् ततस्तद्धानायैव