पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४
दैवं

  'कृष विलेखने' । कर्षतिस्त्वाकर्षणे प्रसिद्धः ॥

 शिषोऽसर्वोपयोगे यौ शेषयेच्छेषतीत्युभे ॥ १७८ ॥
 लुङयभावादङोऽशेपीच्छिनष्टीति विशेषणे ।

  'शिष असर्वोपयोगे' । 'शिष हिंसार्थ' इत्यस्यापि शेषतीति द्रष्टव्यम् । लुङीति । लृदित्त्वाभावादस्य लुङ्यङोऽभावः । 'शिष्लृ विशेषण' इत्यस्य तु रुधादेर्लदित्त्वादशिषदित्यङ् भवति । विपूर्वश्चायमत्रार्थे प्रयुज्यते । अत्र चाशेषीदित्ययुक्तम् , 'शिषिं पिषिम्' इत्यनिटकारिकाप्रामाण्याच्छिपिमात्रस्यानिट्वेन ‘शल इगुपधादनिटः क्सः' (३-१-४५) इति क्से सति आशक्षदित्येव युक्तत्वात् ॥

 शपि रोपति हिंसायां रोपे रुष्यति रोषयेत् ॥ १७९ ॥

  रुष हिंसार्थः । 'रुष गेषे' । दिवादिश्चुरादिश्च ॥

 चुम्बने परिमाणे च निक्षेन्निक्षयते क्रमात् ।

  णिक्ष चुम्बने । निक्षति चुम्बति निस्ते तन्व्या[१] मुखपङ्कजं प्रेयान्' इति च सुन्दरपाण्डयः । रोषे इति तु 'वा निंसनिक्षनिन्दाम्' (८-४-३३) इत्यत्र न्यासः-- णिक्ष परिमाणे' । चितादिः । निष्केत्येव तु दृश्यते । मैत्रेयरक्षितेन च निष्कमित्युदाहृतम् ॥

 जोषयेज्जोषतीत्येते युजादेः परितर्कणे ॥ १८० ॥
 प्रीतिसेवनयोरिष्टं तुदादेर्जुषतेपदम् ।

  'जुष परितर्कणे' । 'परितर्पणे परितृप्तिक्रियायाम्' इति

क्षीरस्वामी । 'जुपी प्रीतिसेवनयोः' ॥


  1. 'तस्या' इति पाठस्याप्यनुकूलोऽक्षरविन्यासः.