पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२
दैवं

क्र्यादिः । एवं चैतेष्वेव क्र्यादिपाठात् [१]'बन्धने जुडतीति च' इतिवत् दाहेऽर्थे प्रोषतीति चेति वाक्यार्थसमुच्चय एव चः; दाह एव वा [२] प्रागुक्तरूपयोः समुच्चयेन चात्रात्यन्ताय व्यवहितान्वयः, दाहग्रहणेनैव तयोरपि धिया सन्निधानात् ॥

भूषति भूषयेत् ॥ १७२ ॥
 

 अलङ्कृतौ

  'भूष अलङ्कारे ॥

क्षमायां यौ मर्षेन्मर्षेत मर्षयेत् ।

  मृष्यते मृष्यतीति स्यात् सहने शपि मर्षति ॥ १७३ ॥ 'मृष तितिक्षायाम् । स्वरितेतौ । दिवादिश्चान्त्यः । शाकटायनस्य त्वाद्य आत्मनेपदी । 'पृषु वृषु मृषु सेचने' । 'मृषु सहने च ॥

 सेचने मेषतीति स्यात् स्पर्धायां मिषतीति शे ।
 व्याप्तौ वेवेष्टि वेविष्टे विषेर्वेषति सेचने ॥ १७४ ॥
 विप्रयोगे विषेः क्र्यादेर्विष्णातीति पदं भवेत् ।

  जिषु विषु मिषु सेचने' । 'मिष स्पर्धायाम्' । 'विषलृ व्याप्तौ' । जुहोत्यादिः। 'उदिदित्येके' इति क्षीरस्वामी । 'आर्याणामुदित् । द्रमिडानां लृदित्' इति धनपालः । पुषादि (३-१-५५) इत्यत्र सुधाकरश्व-"द्रमिडानामविषत् । आर्याणां तु 'शल इगुपधादनिटः क्सः (३-१-४५) अविक्षदिति नन्दी" इति । 'निजां त्रयाणां गुणः श्लौ' (७-४-७५) 'विष विप्रयोगे ॥


  1. इदं ८९ श्लोके
  2. प्लोषति प्लुष्यतीत्यनयोः