पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०
दैवं

चोक्तमेवोन्नेयम् । 'इषुगमियमां छः' (७-३-७७) । 'इष गतौ । दिवादिः । 'जेषृ णेषृ एषृ प्रेषृ गता'वित्यस्य तु तङि एषते । अत्रैव तु क्षीरस्वाम्याह-'चुरादावप्येषयती'ति ॥

 ईषतीतीष उञ्छेऽर्थे गत्यादावीषते भवेत् ।

 गत्यादाविति । ईष इत्येव । 'ईष उञ्छे' । 'ईष गतिहिंसादर्शनेषु' ॥

 घुषेर्विशब्दनादौ णो घोषयत्यविशब्दने ॥ १६९ ॥
 घोषतीतीदितो घुंषेद् घुंषते कान्तिकर्मणि ।

  'घुषिर्विशब्दने' । तच्च शब्देन स्वाभिप्रायप्रकाशनम् । धातूनामनेकार्थत्वेनार्थान्तरस्यापि सम्भवादादिशब्दः प्रकारार्थो व्याख्येयः । यदि तु 'विशब्दनार्थे णौ' इति पाठः स्यात् , तदा न कश्चित् क्लेशः । 'घुषिरविशब्दने' (७-२-२३) इत्यत्र विशब्दने विभाषा घुषर्णिज् भवतीति [१]भाष्ये स्थिते घोषतीत्यपि भवति । 'घुषिरविशब्दार्थः' । घुषिर् इत्ययं धातुः यथाप्रयोगं विशब्दनादन्यत्रार्थे वर्तत इत्यर्थः । शब्दार्थ इति तु क्षीरस्वामिधनपालभागवृत्तिकाराः । शब्द इति चन्द्रदुर्गौ । 'घुषृ शब्दे' इति शाकटायनः । तेन चेरित्स्थाने ऋदित् क्रियते । अस्मिंश्च पाठे अस्यैवानेकार्थत्वेन विशब्दनार्थत्वस्यापि सम्भवाद् विनापि णिज्विकल्पेन विशब्दनेऽपि घोषतीति सिध्यति । प्रपञ्चितं चैतत् प्रक्रियारत्ने । 'घुषि कान्तिकरणे' । 'घषि करणे' इत्यन्ये । घसी-


  1. इत्थं हि भाष्यम् -'किमर्थमविशब्दने इत्युच्यते । न विशब्दने चुरादिणिचा भवितव्यम् । एवं तर्हि सिद्धे सति यदविशब्दने इत्याह, तद् ज्ञापयत्याचार्यो विशब्दने घुषेर्विभाषा णिज भवतीति'.