पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९
पुरुषकारोपेतम् ।

गुणः । पाषण्डादिस्तु 'पष अनुपसर्गात्' इत्यस्य कथादेर्भविष्यति; 'पष बन्धने' इत्यस्यैव वा युजादेः । 'पश बन्धने' इत्यत्र मैत्रेयरक्षितः- 'पष बन्धन इति युजादावेके पठन्ति' इति । अव्युत्पन्नो वास्तु । 'स्पश ग्रहणश्लेषणयोः' । चितादिः ॥

 भ्राशते भ्लाशते दीप्तौ भ्राश्यते भ्लाश्यते तथा ॥ १६७ ॥

  'टुभ्राजृ टुभ्राशृ टुम्लाशृ दीप्तौ' । 'वा भ्राशे'ति (३-१-७०) वा श्यन् ॥

 झषेज्झषेत संवृत्यामादाने हिंसने झषेत् ।

  'झष आदानसंवरणयोः' । झष हिंसार्थः ॥

 इष्णात्याभीक्ष्ण्य इच्छायामिच्छेद् गत्यर्थ इष्यति ॥

  'इष आभीक्ष्ण्ये' । पौनःपुन्यं भृशार्थो वाभीक्ष्ण्यम् । तद्विषयायां क्रियायामित्यर्थः । तथा च श्रूयते-'पुर इष्णाति पुरुहूतः पुर्वीः' इति । अत्र ह्यासुरीणां पुरूणां पुरामभीक्ष्णं हननादिरर्थो गम्यते । 'इषु इच्छायाम्' । यथा तु 'तीषसहलुभरुषरिष' (७-२-४८) इत्यत्र " 'इषेस्तकारे श्यन्प्रत्ययात् प्रतिषेधः' इह मा भूत् प्रेषिता प्रेषितुं प्रेषितव्य"मिति भाष्यं, तथा इषेत्येव पाठः । यदाह कैयटः- "इषु इच्छायामिति केचित् तौदादिकमुदितमधीयते । अन्ये तु उदित्त्वस्य प्रयोजनमपश्यन्त इष इच्छायामिति पठन्ति । ये त्विह 'तीषुसहे'ति पठन्ति । तन्मतेनेह विशेषणार्थ उकारः । तत्र वार्तिककारमतेन त्रयोऽपीषयोऽननुबन्धकाः; इह च तीषसहेति पाठः । तदाह इषेरिति” इति । अत्र च 'तीषे'त्यनेनैव क्त्वायामिड्विकल्पः सिद्धः । 'शतुर्वा नुमि'ति