दंशने दशतीति स्यात् तत्र दंशयते णिचि ॥ १६४ ॥
भाषणे दंशयेत्
'दंश दंशने' । 'दंशसञ्जे'ति (६-४-२५) नलोपः । 'दशि दंशने' । चितादिः। दंशेत्येके । तथा च दंश् इति* । शाकटायनः पुनर्दशुङिति । दशि भाषार्थः ॥
'काशृ दीप्तौ' । दिवादिर्भूवादिश्च । अनुदात्तेत् ॥
लिश्यते लिशतीत्येवमल्पीभावे गतौ क्रमात् ॥ १६५ ॥
'लिश अल्पीभावे' । दिवादिः । तुदादिश्चायं क्षीरस्वामिधनपालयोः । 'लिश गतौ' । तुदादिः । तयोरनुमतोऽयं पाठः । द्विष्पाठस्त्वेवमर्थभेदान्नूनम् । एवं तु 'लिश गत्यल्पीभावयोरि'त्यनुक्तिवैचित्र्यार्था ॥
व्याप्तावश्नुत इत्याहुरश्नातीति तु भोजने ।
'अशू व्याप्तौ' । स्वादिः । 'अश भोजने' क्र्यादिः ॥
बाधने स्पर्शने चार्थे हिक्कादौ स्पशते स्पशेत् ॥ १६६ ॥
ग्रहणे श्लेषणे चार्थे चुरादौ स्पाशयेत णौ ।
'स्पश स्पर्शबाधनयोः' । क्षीरस्वामी तु 'पषेत्येके । पाषण्डः पाषाणः' इत्याह । दुर्गशाकटायनयोश्चैष एव पक्षः । तत्र चाद्यः पाठः 'प्रतिस्पशोऽविसृजतूर्णितमः' 'यतो व्रतानि पस्पशे' 'शब्दविद्येव नो भाति राजनीतिरपस्पशा' इत्यादिप्रयोगानु-
- इदं वाक्यं दंशेति पाठ संवादयितुं प्रवृत्तमिव भासते । पदभ्रंशश्चात्रार्थाप्रतीतेरनुमातव्योऽस्ति.