पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६
दैवं

भूतेऽपि भवतीत्यूचुः । 'शबर्या पूजितः सम्यग्' इत्यादिप्रयोगाश्चात्रैवा[१]नुगुणाः । 'अपवादविषये क्वचिदुत्सर्गस्यापि समावेशः' इति भोजदेवः । आह स्म चैतत्सर्वं सुधाकरः- " 'अनेन वर्तमाने क्तेन भूते प्राप्तः क्तो बाध्यते' इति भर्तृहरिः । भाष्य(टकार?) टीकाकृतस्तु भूतेऽपि भवती [२]त्यूचुः । तथा च पूजितो गतः पूजितो यातीति भूतकालो वाच्यः । नतु पूज्यमानो वर्तमान" इति । 'फल निष्पत्तौ' । अस्य चानादित्त्वादनिट्त्वोत्त्वयोरसम्भवेन फुल्लाभावाद् अन्त्ये इत्युक्तम् ॥

 *विदारणे शपि दलेद् दालयेदिति णौ दलेः ॥ १५९ ॥

  'दल विदारणे' । अन्त्यो ग्रसादिः। विशरणे त्वाद्यं बहवः पठन्ति । 'दलन्ति ककुभानि चे'ति दण्डिनः प्रयोगः । सर्वथाप्यस्य 'दलिवली'ति मित्त्वाद् दलयेदित्यपि विशरणे द्रष्टव्यम् ॥

 श्लेषे मिलेत् सङ्गमे तु मिलते मिलतीति च।

  'मिल श्लेषणे' 'मिल[३] सङ्गमे । तुदादी । अत्र मैत्रेयरक्षितः- 'मिल श्लेषण इत्येके पठन्ती'ति । कौमाराः पुनरमुमेव पठन्ति । शृङ्गारप्रकाशे तु 'मिलन्त्याशासु जीमूता' इत्यपठितधातुषु मिलतिः प्रदर्शितः ॥

 अर्दने देवयेद् दीव्येत् क्रीडादौ परिकूजने ॥ १६०॥


  • इदमर्धे 'फलेर्विशरणे फुल्लम्' इत्यतः प्राक् पठितं कपुस्तके.

  1. आनुगुण्यं च शबर्येति तृतीयानिर्देशस्य द्रष्टव्यम् । अन्यथा हि 'क्तस्य च वर्तमाने' (२-३-६७) इति षप्ठ्या भाव्यम्.
  2. 'ज्ञातमिति तु भूतेऽपि भवति तेनेत्यधिकारात् तृतीयान्तादुपज्ञातेऽर्थेऽण्प्रत्ययविधानाद्' इति 'मतिबुद्धि' (३-२-१८८) इति सूत्रे कैयटः.
  3. अयं स्वरितेत् .