पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५
पुरुषकारोपेतम् ।

शाकटायनः । कोशशुद्धिस्त्वीदृशेषु कीदृशीति न विद्मः ॥

 मूलेः प्रतिष्ठितौ मूलेद्रोहणे मूलयेदिति ।
 वेलेत्तु चलने वेलेर्वरणे विलतीति शे ॥ १५७ ॥
 क्षेपे णौ वेलयेद्

  'वेलृ चलने' । 'विल वरणे' । 'विल क्षेपे' ॥

भृत्यां चालयेत् कम्पने चलेत् ।
 

  'चल भृतौ' । 'चल कम्पने' । अस्य तु हेतुमण्णिचि 'कम्पने चलिरि'ति मित्त्वाच्चलयेदिति द्रष्टव्यम् । कम्पनात्त्वन्यत्र [१]चालयति सूत्रमर्थं वेति ॥

 फलेर्विशरणे फुल्लं फलितं फलति त्रयम् ॥ १५८ ॥
 आदितोऽनादितस्त्वन्त्ये रूपे निष्पत्तिवाचिनः ।

  'ञिफला विशरणे' । अस्याकर्मकत्वाद् भावे क्तः, 'गत्यर्थाकर्मके' (३-४-७२)त्यादिना कर्तरि च, 'क्तोऽधिकरणे चे (३-४-७६)त्यधिकरणे च । तत्रान्त्ययोः 'आदितश्च' (७-२-१६) इतीटि प्रतिषिद्धे 'उत् परस्यातः' 'ति च' (७-४-८८) इत्युत्वे च कृते 'अनुपसर्गात् फुल्ले' (८-२-५५)त्यादिना निष्ठातकारस्य लत्वनिपातनात् फुल्लम् । आद्ये तु 'विभाषा भावादिकर्मणोः' (७-२-१७) इतीट्प्रतिषेधविकल्पात् फलितं च । क्तश्चायं 'ञीतः क्तः (३-२-१८७) इति वर्तमाने भवति, नतु भूते 'तक्रकौण्डिन्य'न्यायेन बाधात् 'येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधकः' इति चाहुः । येन नाप्राप्त इति च यस्मिन् प्राप्त एवेत्यर्थः । अपरे पुन-


  1. क्षिपत्यन्यथाकरोति वेत्यर्थः.