पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
दैवं
ईरयतीरति।
 

 ईरेः क्षेपे विभाषा णौ लुकीर्ते गतिकम्पयोः ॥ १५३ ॥

  'ईर क्षेपे' । 'ईर गतौ कम्पने च' । अनुदात्तेत् । गतावित्येव बहवः ॥

 गतौ शलति संवृत्यां चलने शलते शलेः ।

  'शल हुल पत्लृ गतौ' । ज्वलादयः । 'शल श्चल्ल आशुगमने' इति ज्वलादौ क्षीरस्वामी । श्चल श्चल्लेति तु मैत्रेयरक्षितः । तत्र चाद्यं पाठमाश्रित्य गतावित्येवोक्तम् । पाठान्तरेऽपि वा गतिग्रहणेनाशुगतिरपि कामं गृह्यते । 'शल चलनसंवरणयोः' ॥

 समाधौ शीलतीति स्याच्छीलयत्युपधारणे ॥ १५४ ॥

  'शील समाधौ' । 'शील उपधारणे' । तच्चाभ्यासः ॥

 कलेः कालयति क्षेपे गतिसङ्ख्यानयोर्द्वयोः ।
 कलयेच्छब्दसङ्ख्यानविषये कलते शपि ॥ १५५ ॥

  'कल विल क्षेपे । 'कल गतौ सङ्ख्याने च' । कथादिः । 'कल शब्दसङ्ख्यानयोः' ॥

 महत्त्वे पोलति पुलेर्णौ तु तत्रैव पोलयेत् ।

  'पुल महत्त्वे' । तुदादौ चायं क्षीरस्वामिनः । भूवादौ च स एवाह -'तुदादौ पुलती'ति । तदा [१]पुलेदिति पाठः । चुरादौ तु समुच्छ्राय इति पपाठ ॥

 सङ्घाते पूलयेत् पूलेत् पूलेः स्तां णिशपोः क्रमात् ॥

  'पूल सङ्घाते' । पूर्ण इति तु चुरादौ क्षीरस्वामी । पूणेति


  1. पुलेरित्यस्य स्थाने.