पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०३
पुरुषकारोपेतम् ।

'छुर च्छेदने क्तः । यावादि (५-४-२९) कन्नि'ति कविकामधेनौ व्याख्यातम् । 'कृन्तत्यचोटयदचुण्टयदच्छु[१]रच्च' इत्याख्यातनिघण्टुश्च । त[२]देवमपाठपक्ष एव न्याय्यः, चितादौ चेच्छुरिर्न दृश्यते ।

 [३]स्तेये चोरयतीति स्याच्चुरेश्छेदे चुरेदिति।

  इति तु क्वचित् पाठः । तदापि चकारादित्वमयुक्तमेव । यदा तु छकारादिरेवापठ्यत, तदापि कथञ्चित् सादृश्यं नेयम् ॥

 शूरयेतेति विक्रान्तौ शूर्यते स्तम्भहिंसयोः ॥ १५१ ॥

  'शूर वीर विक्रान्तौ' । प[४]दादी । 'शूरी हिंसास्तम्भयोः' । दिवादिरनुदात्तेत् ॥

 गुरते गूरयेतेति शे णावुद्यमने तङि ।
 श्यनि गूर्यत इत्येवं गतिहिंसनयोस्तङि ॥ १५२ ॥

  'गुरी उद्यमने' । तुदादिः । 'गूर उद्यमने' । चितादिः । 'धूरी गूरी हिंसागत्योः' ॥

 संशये चारयेद्गत्यां चरति

  'चर संशये' । 'चर गतौ भक्षणे च' । यथा तु 'भक्षणेऽपि प्रयुज्यते चरिः' इति मैत्रेयरक्षितः, तथा नायं पाठोऽस्ति । अपि त्वर्थवशेन केनचित् प्रक्षिप्त इति गम्यते; तथा 'चर गतिभक्षणयोरि'ति[५]


  1. छेदनार्थे चुरतीत्याख्यातस्य सत्त्वे तदत्रापठिप्यत.
  2. उक्तप्रकारेण तुदादेर्णिजुदाहरणस्य चकारादित्वस्य चासामञ्जस्यादित्यर्थः.
  3. इदमर्धे रान्तशेषतया दैवग्रन्थे पठ्यते 'गतौ शलती'ति (१५४) श्लोकात् प्राक्.
  4. आगर्वीयावित्यर्थः.
  5. मैत्रेयोक्तिपर्यालोचनया 'चर गतौ भक्षणे च' इति वा 'चर गतिभक्षणयोः' इति वा पाठो नास्तीति प्रतीयते इति वाक्यार्थः.