पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१
पुरुषकारोपेतम् ।

स्तु "अपरिवेषणे यमिर्न मित् । यामयति । परिवेषणे यमयति ब्राह्मणान् । कथं नियमयति संयमयतीति । 'तत्करोति' इति प्रातिपदिकाण्णिच्प्रत्ययः” इति । धनपालश्च निषेधपक्षमेव पर्यग्रहीत् । 'न पादम्याङ्यम' (१-३-८९) इत्यत्र च जयादित्यः- "आयामयते 'यमोऽपरिवेषणे' इति मित्संज्ञा प्रतिषिध्यते” इति । व्यानञ्ज चैतज्जितेन्द्रः- "'न कम्यमिचमाम्' इत्यतो नेति वर्तते" इति । 'अनन्तरस्य विधिर्वा' इति च नीतिः 'नेति वर्तते इत्ये*तदेवानुवर्तते 'घटादयो मितः' इति मित्त्वविधेः प्रतिषेधान्तरितत्वात् । शाकटायनः पुनर्घटादौ चुरादौ च पक्षद्वयमपि परिजग्राह । तत्र च क्षीरस्वाम्यादिपक्षे यामयेदिति कामं पठितव्यम् । धनपालपक्षेऽप्येवमेव चुरादौ द्रष्टव्यम् । शाकटायनपक्षे पुनरुभयत्राप्युभयमिति विभागः ॥

 स्यमेः स्यमति शब्दार्थे वितर्के स्यामयेत णौ ॥ १४८ ॥

  'स्यमु स्वन ध्वन शब्दे' । 'स्यम वितर्के' । चितादिः । 'नान्ये मित' इति मित्त्वाभावः । पूर्वस्य हेतुमण्णिचि मित्त्वात् स्यमयेत् स्यमयेतेति द्रष्टव्यम् । न्यासकारस्तु 'नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः' (६-२-१३३) इत्यत्र स्यालशब्दव्युत्पादनार्थे 'स्यल वितर्के' इत्यपाठीत् ॥

 आलोचने शामयते शाम्यत्युपशमे श्यनि ।

  'शम लक्ष आलोचने' । चितादिः । 'शमु उपशमे' । घटादौ च 'शमो दर्शने' इति पठ्यते । शाम्यतेर्दर्शनेऽर्थे मित्संज्ञा न भवतीत्यर्थः । अदर्शने भवतीति तु क्षीरस्वामी । एवमेव चान्द्र-


१. एतदेव = 'नेति वर्तते' इत्येवंरूपं विवरणमेव । अनुवर्तते = अनुगृह्णाति.