पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००
दैवं

इति मित्त्वनिषेधादमेर्हेतुमण्णिच्यप्यामयतीति द्रष्टव्यम् । अयं च निषेधः कमिचमिसाहचर्याद्भौवादिकस्यैवार्हतीति 'नान्ये मित' इत्येव चुरादिणिचि निषेद्धव्यम् ॥

 चलने भ्रमति भ्रम्येच्छमादेर्भ्राम्यति भ्रमेत् ॥ १४७ ॥

  'भ्रमु चलने' । 'भ्रमु अनवस्थाने' । दिवादिः । 'वा भ्राश' (१-३-७०) इत्यादिना वा श्यन् ॥

 यमेरुपरमे यच्छेद्यमयेत् परिवेषणे ।

  'यमु उपरमे' । 'उदित्त्वमस्य केचिन्नेच्छन्ति' इति मैत्रेयरक्षितः । क्षीरस्वामी तु यमेत्येव पठित्वाह – 'उदिदिति श्रीभोजः' इति । तत्फलं तु यत्वेत्येव प्राप्ते यमित्वेतीड्विकल्पः । 'अनुदात्तोपदेश' (६-४-३७) इत्यादिना नलोपः । 'इषुगमियमां छः' (७-३-७७) । 'इषेश्छत्वमहलीति वक्तव्यम् । इह मा भूत् । इष्यति इष्णाति' इति भाष्याद् *इषेत्येवार्षः पाठः । 'यम च परिवेषणे' । अत्रार्थे यमिर्णिचमुत्पादयति मिच्च भवतीत्यर्थः । 'यमोऽपरिवेषणे' इति तु क्षीरस्वामिधनपालौ । घटादावप्येव*मेव पठन्ति । अर्थे त्वस्य विवदन्ते । तत्र क्षीरस्वामी तावद् - 'यम उपरम इत्यस्य धातोः परिवेषणादन्यत्रैवार्थे मित्संज्ञा । यमयति नियमयति संयमयति । परिवेषणे तु यामयति श्राद्धे । यामयति चन्द्रम्' इति । एवमेव च चान्द्रकौमारभोजीयाः । मैत्रेयरक्षित-


१. अन्यथा दिवादिक्र्याद्योरुदित्त्वाभावेन हलि च्छत्वाप्रसङ्गाद् इष्यतीष्णातीत्यनयोः अहलीति निषेधोदाहरणत्वमसङ्गतं स्यात् । 'इषु इति वक्तव्यम्' इति वाच्ये तथानुक्त्या च तुदादावप्यननुबन्ध एव पाठो वार्तिककारस्य. २. 'यमोऽपरिवेषणे' इत्येव सर्वे पठन्तीत्यर्थः.