पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९
पुरुषकारोपेतम् ।

१-६१) इत्यादौ जभ जृभि गात्रविनाम इत्येव पाठात् जभिर्मैथुने नास्तीति गम्यते, वृत्तौ च '*रभिश्च भान्तेष्वथ मैथुने यभिः' इत्यत्र रब्धा यब्धेत्येवोदाहृतेः। 'जभि नाशने' ॥

 प्रेरणे लाभयेल्लाभेः प्राप्त्यर्थे लभते शपि ।

  'लाभ प्रेरणे' । कथादिः । तत्फलं पुनरललाभदित्यत्राग्लोपित्वाद्ध्रस्वाभावः । 'लभेति सभ्या' इति क्षीरस्वामी । 'डुलभष् प्राप्तौ' ॥

 अषितः क्षाम्यति क्षान्तिः क्षमूषः क्षमते क्षमा ॥ १४६ ॥

  'क्षमू सहने' । 'शमामष्टानां दीर्घः' (७-३-७४) इति दीर्घः । 'क्षमूष् सहने' । अनुदात्तेत् । षित्त्वादङ् । स च 'स्त्रियां क्तिन्' (३-३-९४) इत्यस्यापवादः । अषितस्त्त्वौत्सर्गिकः क्तिन्नेव भवतीति क्षान्तिरित्युक्तम् । 'अनुनासिकस्य क्विझलोः क्ङिति' (६-४-१५) इति दीर्घः ॥

 गत्यादावमतीति स्याद्रोगे स्यादामयत्यमेः ।

  'अम गत्यादिषु' । ते च 'कन दीप्तिकान्तिगतिषु । ष्टन वन शब्दे । वन षण सम्भक्तौ' इति समनन्तरोक्ताः । “अपरे 'अव रक्षणगती' त्यादयो गत्यादय इत्याहुः” इत्यपि धनपालः । 'अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु' इति विदूरे वक्ष्यमाणा अपि गृह्यन्ते इत्याहुरित्यर्थः । 'अम रोगे' । 'आद्यन्तवदेकस्मिन्' (१-१-२१) इति अमन्तत्वेऽपि 'न कम्यमिचमाम्'


१. अनिट्कारिकेयम्