पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७
पुरुषकारोपेतम् ।

 हिंसायां वक्त्रसंयोगे चुम्बयेच्चुम्बति क्रमात् ।

  'चुबि हिंसायाम्' । 'चुठि इत्येके' इति मैत्रेयरक्षितः । 'चुबि वक्त्रसंयोगे' ॥

 णिचि कुम्बयतीति स्याच्छादने शपि कुम्बति ॥ १४०॥

  'कुबि छादने' ॥

 गार्ध्ये लुभ्यति मोहार्थे तुदादेर्लुभतीति शे ।

  'लुभ गार्ध्ये' । दिवादिः । तच्चाभिकाङ्क्षा । 'लुभ विमोहने' ॥

 दृभी भये विभाषा णौ स्यातां दर्भति दर्भयेत् ॥ १४१॥
 अनीदितश्च सन्दर्भे दृभति ग्रन्थ ईदितः ।

  विभाषेत्याद्यनुकर्षणार्थश्चः । तत्र चाणिच्पक्षे 'दृभी भये' 'दृभ सन्दर्भे' इत्यनयोरीदितो दृब्धमिति भवति, अनीदितस्तु दृभितमितीत्यभिप्रेत्य अनीदित इत्युक्तम् । बहवस्त्वन्त्यं न पठन्ति । 'दृभी ग्रन्थे' । तुदादिः । स च ग्रन्थनम् ॥

 स्तभ्नाति स्तभ्नुयात् स्तुभ्नात्यपि स्तुभ्नोति सौत्रयोः॥
 स्तम्भते प्रतिबन्धार्थे स्तम्भेऽर्थे स्तोभते शपि।

  'क्र्यादिभ्यः श्ना' । 'स्तम्भु स्तुम्भु स्कम्भु स्कुम्भु स्कुञ्भ्यः श्नुश्च' (३-१-८२) इति सौत्रयोर्धात्वोः श्नुश्नौ । 'ष्टभि स्कभि प्रतिबन्धे' । अनुदात्तेतौ । 'औपदेशिकोऽयं टकारो न तु ष्टुत्वनिबन्धन इत्येके' । इति क्षीरस्वामिमैत्रेयरक्षितौ । तदा ष्टम्भते इत्येवं रूपम् । स्कम्भुस्कुम्भ्वोः पुनः स्कभ्नाति स्कुभ्नुयात् स्कुभ्नाति स्कुभ्नुयात् स्कम्भत इति सुशकमूहितुमित्याशयः । 'ष्टुभु स्तम्भे' ॥