पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
पुरुषकारोपेतम् ।

दित्येनोररीचक्रे 'क्षिप प्रेरणे इति दिवादिस्तुदादिश्च गृह्यते' इति वदता । अत एव व्यासप्रयोगः-

'द्वाविमावम्भसि क्षिप्य गळे बद्ध्वा महाशिलाम् ।
धनिनं चाप्रदातारं दरिद्रं चाप्रवासिनम् ॥'

इति । 'संक्षिप्य संरम्भमसद्विपक्षम्' इति भट्टिः। नो खलु पारायणिकैरप्रदर्शनादभावानुमानं, लक्ष्यपारतन्त्र्येण तेषामवस्थानात्, शिष्टप्रयोगोपगीतनाम्नः शब्दराशेरनाश्रयणे प्रधानविरोधाल्लक्षणस्यालक्षणत्वं मा भूदिति” इति ॥

 सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत् ।
 ऐश्वर्ये वा दिवादित्वात् तप्यते तपतीति च ॥ १३१॥

  'तप सन्तापे' । 'तप दाहे' । युजादिः स्वरितेत् । शाकटायनस्य त्वात्मनेपदी । 'तप ऐश्वर्ये वा' । तपेत्ययं धातुरैश्वर्ये तङ्श्यनौ वोत्पादयतीत्यर्थः । एवं च दिवादित्वेनैव त*दविनाभूतमनुदात्तेत्त्वम*पि दर्शितं द्रष्टव्यम् । पतेत्येके । तथा च 'इरज्यति पत्यते क्षयति राजतीति चत्वार ऐश्वर्यकर्माणः' इति नैरुक्ताः । केचित्तु वेत्येतद् 'वावृतु वरणे' इत्युत्तरधात्वंशमाहुः । तथा च 'ततो वावृत्यमाना सा रामशालां न्यविक्षत' इति भट्टिः। एवं च '*णौ वर्त्तयति भाषार्थ' इत्यत्र 'वरणे श्यनि वृत्येत' इत्यप्यनुक्तिः शोभतेतराम् ॥

 आक्रोशे शप्यते शप्येच्छपते शपतीति च ।


१. तत्सम्बद्धम् . २. अपिशब्दग्राह्यं श्यन्विषयत्वम् . ३. एतच्च 'वर्तयेद् भाषणार्थे णौ' इति प्राक् (९६. श्लोके) पठितस्योपलक्षणं यथाश्रुतपाठस्य काप्यदर्शनात्.