जादिना तत्सिद्धेः । व्यक्तं चैतत् 'पूर्ववत् सनः' (१-३-६२) इत्यत्र भागवृत्तौ ॥
गुधेर्गुध्नाति रोषेऽर्थे गुध्येत्तु परिवेष्टने ।
'गुध रोषे' । क्र्यादिः । 'गुध परिवेष्टने' । दिवादिः ॥
रुन्धे रुणद्ध्यावरणे कामेऽनावनुरुध्यते ॥ १२१ ॥
'रुधिर् आवरणे' । 'अनौ रुध कामे' । दिवादिः । अनुदा- त्तेत् । अनावित्यन्वित्युपसर्गे सति ॥
राध्नोति संसिद्ध्यर्थे श्नौ राध्येद् वृद्धावकर्मकात् ।
'राध साध संसिद्धौ'। 'राधोऽकर्मकाद्वृद्धावेव' । १राधेरकर्मकाच्छ्यन् इत्येतावानेवात्र विवक्षितोऽर्थः । वृद्धिग्रहणन्त्वकर्मकक्रियोदाहरणमात्रम् । एवमकारश्चैवमर्थात् सिद्धाया २व्यावृत्तेरनुवादमात्रम् । तथा च 'कर्मवत् कर्मणा तुल्यक्रियः' (३-१-८७) इत्यत्र भाष्यम् --- 'राध्यत्योदनः स्वयमेव' इति । अत्र हि सिध्यतीत्यर्थः; नतु नदी राध्यतीतिवद् वर्धत इति । तथैव 'राधीक्ष्योर्यस्य विप्रश्नः' (१-४-३९) इत्यत्र वृत्तिः । 'देवदत्ताय ३राध्यति । नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयतीत्यर्थः' इति ॥
ऋध्नोतीति भवेद् वृद्धावृध्यतीत्यत्र तु श्यनि ॥१२२॥
'ऋधु वृद्धौ' । आद्यः स्वादिः ॥
गृधेर्गृध्यति काङ्क्षायां गर्धेस्तत्रैव गर्धयेत् ।
'गृधु अभिकाङ्क्षायाम्' । दिवादिः । 'गर्ध अभिकाङ्क्षायाम्' ॥
१. वक्ष्यमाणभाष्यवृत्त्यानुगुण्याय यथाश्रुतान्वयपरित्यागेन व्याचष्टे---राधेरिति. २. सकर्मकव्यावृत्तेरित्यर्थः । एवञ्चैवकारस्य भिन्नक्रमतया 'अकर्मकाद्' इत्यनेनान्वयः फलितः. ३. दैवस्य कर्मणो धात्वर्थेऽन्तर्भावादकर्मकत्वं द्रष्टव्यम् .