दित्वे हेतुः । भुवादौ 'हिक्क अव्यक्ते शब्दे' इत्यारभ्य केचित् स्वरितेतः पठ्यन्ते । तेषु चायं शृधिः । 'शृधु प्रसहने' ॥
बुध्यते बोधतीत्येवं बुधेरवगमे द्वयम् ।
बुधिरो बोधनार्थस्य बोधते बोधतीत्यपि ॥ ११९ ॥
'बुध अवगमने' । दिवादिर्भूवादिश्च । 'बुधिर् बोधने' । क्षीरस्वामी तु 'बुध' इति पठित्वा 'बुधिरिति नन्दी' इत्याह ॥
बध्नाति बन्धने बन्धेर्बाधयेदिति संयमे ।
यत्तु बीभत्सते तत् स्याद् वैरूप्येऽर्थे बधेः सनि ॥
अपरे पुनः पठन्ति---
[बध्नन् बीभत्सते बन्धे बाधयेदिति संयमे ।]
'बन्ध बन्धने' । क्र्यादिः। 'बध संयमने' । 'बध बन्धने'। 'गुप्तिज्किद्भ्यः सन्' (३-१-५) 'मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य' (३-१-६) इति सन् । अभ्यासेकारस्य च 'सन्यतः (७-४-७५) इति कृतस्य दीर्घः । संश्चास्माद्वैरूप्य इप्यत इत्याहुः । तच्च बीभत्सैव । एवं च बन्धे इत्यपि बन्धे पठितस्येत्यर्थः । अत्र च सन्नन्तस्याप्यवयवद्वारानुादात्तेत्त्वादात्मनेपदम् । तद्द्वारा हि समुदाय एव गवादाविव लिङ्गमासज्यते । गुपादीनां त्रिमुनिसम्मतेन नित्यसन्नन्तत्वेन केवलेषु गोपत इत्यादेस्तत्फलस्याभावात् जुगुप्सादेश्व समुदायस्यानुपदेशात् । न च नित्यसन्नन्तत्वे वृत्त्युक्तं गोपयतीत्या१दि न सिध्येत् । यथासम्भवं २प्रेकृत्यन्तरात् स्वार्थाण-
१. आदिना तेजयत्यादिपरिग्रहः २. अन्या भूवादौ पठिता 'गुप गोपन' इत्याद्या नित्यसन्विषया प्रकृतिः, अन्या च चुरादौ पठिता भूवादौ चार्थान्तरे पठितेत्याशयः