पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७
पुरुषकारोपेतम् ।

  'षिधु संराद्धौ । "षिधु गत्याम्' । एवमेव च बहवः । न्यासे तु 'एकाच उपदेशेऽनुदात्ताद्' (७-२-१०) इत्यत्र 'अस्योदित्त्वमेनार्षम्' इति स्थितम् । तत्र चोदित्त्वे 'उदितो वा' (७-२-५६) इति क्त्वायामिड्विक​ल्पात् सिद्ध्वा सिधित्वा सेधित्वेति भवति । अनुदित्त्वे तु स्वतः प्राप्तनित्येट्त्वमेवावतिष्ठते इति सिद्ध्वेति न भवति । अत्र च 'रलोव्युपधाद्धलादेस्संश्च' (१-२-२६) इति किद्वद्भावविकल्पात् पक्षे गुणः । 'षिधू शास्त्रे माङ्गल्ये च' । 'शासनं शास्त्रमि'ति मैत्रेयरक्षितः शाकटायनश्च । 'षिधू शिष्टौ' इत्येव च चन्द्रः । 'शास्त्रं शास्त्रविषयं शासनम् । माङ्गल्यं मङ्गलविषया क्रिया' इति क्षीरस्वामी । शासनाद्धि शास्त्रमिति शास्त्रविषयक्रियापि शासनमेवेत्याशयः । तदिति सेधतीत्येतदेवेत्यर्थः । इटा भिदेति सेद्धा सेधितेत्यादौ 'स्वरतिसूति' (७-२-४४) इति इड्विकल्पेनास्य पूर्वस्मात् सिधेर्भेद इत्यर्थः ॥

 शुन्धयेच्छुन्धते शुन्धेद्यौ वा णौ शौचकर्मणि ।
 शुद्धौ शुन्धति भूवादेः शुधेः शौचे तु शुध्याति ॥ ११७ ॥

  'शुन्ध शौचकर्मणि' । स्वरितेत् । शाकटायनस्य त्वात्मनेपदी । 'शुन्ध शुद्धौ' । 'शुध शौचे' । दिवादिः ॥

 शर्धते शब्दकुत्सायामुन्दे शर्धति शर्धते ।
 हिक्कादौ शर्धयत्यस्य शृधेः प्रसहने णिचि ॥ ११८ ॥

  'शृधु शब्दकुत्सायाम्' । सा च पायुशब्द​त्वादिति क्षीरस्वामी । 'शृधु मृधु उन्दे' । स च क्लेदः । हिक्कादित्वं पुनरुभयप-


१. 'षिध गत्याम्' इति निरुकार एव पाठः सिद्धान्तकौमुद्याम्