दित्युक्तम् । क्षीरस्वामिमैत्रेयरक्षितौ तु 'छद अपवारणे' इति यौजादिकस्यैवच्छदेरूर्जने छदयतीति मित्त्वार्थो घटादौ पाठ इत्याहतुः । 'छदि संवरणे' । 'छदेति तु बहवः । उरश्छदो दन्तच्छद इत्युदाजहार च क्षीरस्वामी । शाकटायनः पुनरात्मनेपदिष्वमुं++ पपाठ॥
संसर्गे णिचि मोदयेदिति भवेद्धर्षे पुनर्मोदते ॥ ११३ ॥
'मुद संसर्गे' । 'मुद हर्षे' । अनुदात्तेत् ॥
प्रत्येकं निदिनेद्योः स्तां नेदते नेदतीत्युभे ।
कुत्सायां सन्निकर्षे वा कुत्सामात्रे तु निन्दति ॥ ११४ ॥
णिदृ णेदृ कुत्सासन्निकर्षयोः' । रूपभेदस्तु निनिदे निनेदे इत्यादौ व्यक्तः । 'णिदि कुत्सायाम्' ॥
छुदी सन्दीपने वा णौ छर्दयेच्छर्दतीत्युभे ।
छृन्ते छृणत्तीति पदे दीप्तिदेवनयोः श्नमि ॥ ११५ ॥
'छृदी स्थाने' छृदेति धनपालशाकटायनौ । तत्र चाद्ये १छृण्णमन्त्ये छृदितमिति फलभेदः । क्षीरस्वामिनस्तु पकारान्तोऽयम् । यदाह--- "चृप छृप तृप दृप सन्दीपने'। संदीप्तिक्रियायां चृपादयश्चत्वारो धातवो वर्तन्ते । चर्पयति छर्पयति" इत्यादि । 'उच्छृदिर् दीप्तिदेवनयोः ॥
सिधेः सिध्यति संराद्धौ सेधतीत्युदितो गतौ ।
शास्त्रमाङ्गल्ययो रूपमूदितस्तदिटा भिदा ॥ ११६ ॥
१. 'श्वीदितो निष्ठायाम्' इतीटो निषेधात्
++ 'ष्वप्यमुम्' इति घपुस्तके पाठः