पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८१
पुरुषकारोपेतम् ।

त्राप्युभयविवक्षायामृदितोरिति युक्तं पठितुम् । 'इदितः परिदेवने' इत्यत्रेव वा जात्याख्यायामेकवचनम् । ऋदित्त्वफलं तु 'णौ चङ्युपधाया ह्रस्वः' (७-४-१) इति ह्रस्वेनामीमिददिति प्राप्ते 'नाग्लोपिशास्वृदिताम्' (७-४-२) इति निषेधादभिमेदादिति रूपम् ॥

 आह्वाने रोदने क्रन्देः कन्देः कन्दति कन्दति ।
 वैक्लब्ये तु तयोर्धात्वोः क्रन्दते कन्दते मितोः ॥ १०५ ॥

  'कदि क्रदि क्लदि आह्वाने रोदने१'। '२केदि क्रदि क्रद क्लद वैक्लब्ये' । क्षीरस्वामी तु 'कदि क्रदि क्लदि वैक्लव्ये' इत्युक्त्वा 'वैकल्य इति चन्द्रः । कद क्रद क्लदेति नन्दी' इत्याह । सर्वथापि क्लन्द्यादेरपि क्लन्दतीत्यादि यथार्हमूह्यम् ।

  अथ मितोरिति किमर्थं, नहि तावद्ध्रस्वार्थं, 'नुंविधावुपदेशिवद्वचनम्' इति वार्तिकाद् 'इदितो नुं धातोः' (७-१-५८) इति धातुग्रहणबलादेव वा धातुसंज्ञासमनन्तरमेव नुमि कृतेऽका-

१. एवञ्चानिर्देशे न यथासङ्ख्यं श्लोके. २. एते घटादयः. ३. आदिना क्लदते क्रदते. ४. उन्द्यादेर्नकार इव नुम् इदितो धातोरुपदेशावस्थायां सन्निहितो वक्तव्य इति वार्तिकार्थः । तेनाङ्गोऽपि नुम् भाविन्यङ्गत्वे पूर्वमेव भवतीति 'कुण्डा हुण्डा' इत्यादौ 'गुरोश्च हलः' (३ ३-१०३) इत्यप्रत्ययो गुरुमत्त्वसम्पत्त्या सिध्यति.

५. तासिसिचोरिदित्त्वाभावेऽपि 'माता अमरत' इत्यादी अनिदिताम्' (६-४-२४) इति प्रागुवत्र्युपधानकारलोपो डादेशनिमित्तस्य टिलोपस्याभीयासिद्धत्त्वात् , 'हनः सिच्' (१-२-१४) इति सिचः कित्त्वविधानेन 'आहसाताम्' इति नलोपार्थेन सिजाश्रयोपधानलोपाभावज्ञापनाच्च वारयितुं शक्य इत्यत इकारवैयर्थ्ये स्थिते उच्चारणमात्राय च 'च्लेः सन्' 'स्यतासौ' इत्येवमकार य पाठे प्राथम्यान्न्याय्ये तावतैव 'अच्छैत्सीत्' इत्यादौ नुमागमाप्रसङ्गादधातोरिदितो व्यावर्त्यस्यालाभाद् धातुग्रहणमचरितार्थं सद् धातूपदेशावस्थोपलक्षणार्थं विज्ञायते; तथा च भाष्यं- 'धातुग्रहणसामर्थ्याद्वा तदुपदेशे नुंविधानम्' इति । तेन वार्तिकफलस्य सूत्रत एव सिद्धेराह-धातुग्रहणबलादेव वेति।