पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
दैवं

इत्यादौ 'स्वरतिसूतिसूयतीति (७-२-४४) इड्विकल्पः, न पुनः पाठशुद्ध्या पदशुद्धिरेव । वक्ष्यति च '१इटा भिदेति' ॥

 आस्वादनेऽर्थे स्वदते स्वादयेदिति शब्णिचोः।

  'ष्वद ष्वर्द आस्वादने' । अनुदात्तेतौ । 'ष्वद आस्वादने। विस्तृतश्चायं '२भाषार्थे यौ तु लोकयेद्' इत्यत्र । यस्तु स्वाद आस्वादन इत्येव भूवादावपि पठ्यते, तस्य तङि स्वादत इति द्रष्टव्यम् ॥

 अर्दयेदर्दतेऽर्देद्यौ हिंसनेऽर्दति याचने ॥ १०३ ॥

  'अर्द हिसि हिंसायाम्' । आद्यः स्वरितेत् । शाकटायनस्य त्वात्मनेपदी । 'अर्द गतौ याचने च' ॥

मेदते मेद्यतीत्येते स्नेहने मिन्दयोण्णिचि ।
ऋदितो मेदते मेदेन्मेधाहिंसनयोर्द्वयोः ॥ १०४ ॥

  'ञिमिदा स्नेहने' । भूवादिर्दिवादिश्च । 'मिदेर्गुणः' (७.३.८२) इति गुणः । 'मिदि स्नेहने' । क्षीरस्वामी तु 'मिद स्नेहने । मेदयती'त्युक्त्वा 'कैश्चिदिदित् पठ्यते' इत्याह । 'मिदृ मेदृ मेधाहिंसनयोः' । थान्तावेतावित्येके । व्यक्तं चैतत् क्षीरस्वामिवृत्तौ । धान्तावपरे । तथा च 'षिद्भिदादिभ्योऽङ्' (३-३-१०४) इत्यत्र मेधाशब्दव्युत्पादने जिनेन्द्रः पपाठ । भोजदेवस्तु 'रिखिलिखिशुभिसिधिमिधिगुधिभ्यो गुणश्च' इत्यङ्विधौ मिधेर्गुणं च विदधद् मेधिं नानुमन्यते । कौमाराश्चात्रैवानुकूलाः। तत्र च रिखिः सौत्रो लिख्यर्थः । सेधा सत्त्वम् । गोधा प्रकोष्ठत्राणम् । शिष्टं स्पष्टम् । सर्वथापि 'प्रत्येकं निदिनेद्योः स्तां नेदते नेदतीत्युभे' इत्येवात्रा-


१. ११५ तमलोके. २.४० श्लोके.