पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५
पुरुषकारोपेतम् ।

  'अति अदि बन्धन' इति मैत्रेयरक्षितः । 'तान्तं द्रामिडाः पठन्ति । आर्यास्तु दान्तम् इति धनपालः' । क्षीरस्वामी तु अति अदीत्येव पठित्वा तथैव चोदाहृत्याह- "अतेः पाठोऽनार्षः । अन्ये 'अदि इति बन्धन' इति पेठुः । [१]तनुयाञ्चकार" इति । 'अत सातत्यगमने ॥

चिन्तयेत् ।
 

 स्मृत्यां चेतति संज्ञाने तत्र चेतयते णिचि ॥ ९४ ॥

  'चिति स्मृत्याम्' । 'चिती संज्ञाने' । 'चित सञ्चेतने। इति मैत्रेयरक्षितः। संवेदन इति बहवः ॥

 कृणत्ति कृन्ततीत्येते वेष्टने छेदने क्रमात् ।
 कीर्त्तयेदिति संशब्दे

  'कृती वेष्टने' । रुधादिः । 'कृती छेदने । मुचादिः' । 'कृत संशब्दने' । 'उपधायाश्च (७-१-१०१) इतीत्वं रपरत्वं च । 'उपधायां च' (८-२-७८) इति दीर्घः ॥

गत्यर्थे पतयेत् पतेत् ॥ ९५॥
 

  'पत गतौ वा' । कथादिः । केचित् तु वेति न पठन्ति ।

[२]तथैव च 'स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्' (३-२०-१५८) इत्यत्र [३]वृत्तौ दृश्यते । वापाठे तु सति यावदुपयुक्तं वृत्तिकृता [४]पठितमिति कल्पनीयम् । तत्र च वापाठपक्षे तस्य णिज्विकल्पार्थत्वात् पतेत्यस्य पतयेत् पतेदिति भवति; पत्ऌ गतौ


  1. 'इन्ताञ्चकार' इति पाठः स्यात्
  2. 'पत गतौ' इत्येवेत्यर्थः
  3. काशिकायाम्
  4. वाशब्दस्तु प्रकृतानुपयोगान्न पठित इति तात्पर्यम्