पृष्ठम्:देलरामाकथासारः.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्णयसागरेऽङ्कितानि विक्रेयसंस्कृतपुस्तकानि । चरकसंहिता। अग्निवेशमहर्षिकृता, चरकप्रतिसंस्कृता, चक्रपाणिदत्तप्रणी- तया आयुर्वेददीपिकाव्याख्यया समलंकृता । मूल्यं ८ रूप्यकाः, मार्गव्ययः १ रूप्यकः । सर्वेष्वायुर्वेदनिबन्धेष्वयं ग्रन्थो महत्त्वेन प्राधान्येन च वरीवति । प्राचीनस्या- स्यातिगाम्भीर्येण दुरवगाहत्वात्सर्वेषामध्ययनाध्यापनयोरतीवासौकर्यमासीत् तन्मा- जनार्थ प्रयतमानैरस्माभिर्महता प्रयत्नेनोपरि निदर्शितनानी व्याख्या लब्धा तां भिषग्वरद्वारा संयोज्य संशोधय्य च प्रकाशितास्ति । मीमांसाशास्त्रसारः। ( निवीतान्तमीमांसासिद्धान्ततत्त्वार्थप्रकाशः) मूल्यं १ रूप्यकः, मार्गव्ययः ४ आणकाः। अधीतेष्वपि बहुग्रंथेष्ववसरे कस्यापि निर्णयो यथावन्मीमांसाज्ञानमंतरा दुःशक एव । प्रायः पूर्वमीमांसोत्तरमीमांसयोर्ज्ञानमतीव दुरवगममेवास्तीति व्युत्पित्सवोत्र विषये प्रवेशाभावादत्यन्तमुदासते तेन संप्रति मीमांसाशास्त्रं नामशेषमिव बभूव । अतोऽत्र सहजप्रवेशेन तत्प्रावण्यार्थमयं ग्रन्थो वेदान्तविशारदबिरुदेन अनन्तकृष्ण- शास्त्रिनाम्ना सुलभया रीत्या विरचितोस्ति । भाट्टदीपिका। महामहोपाध्यायसर्वतत्रवतत्रखण्डदेवप्रणीता श्रीशम्भुभट्टप्रणीतप्रभावलीव्याख्या (निवीतान्तो भागः१) मूल्यं ६ रूप्यकाः, मार्गव्ययः १ रूप्यकः । अखिलेष्वपि वाङ्मयेषु सुप्रसिद्धानां षड्दर्शनानामेव सिद्धेपि महत्त्वे मीमां- सादर्शनमेव तेषूचपदमारोहति । भाट्टसांप्रदाये प्रणीतमीमांसानिबद्धसिद्धान्तानूहा- पोहैः खण्डदेवेनात्रैव समीचीनतया समावेशः कृतोस्ति । अग्रे च तच्छात्रेण शंभुभट्टेन प्रभावलीनाच्या मूलग्रन्थादर्शरूपया सनाथीकृत्यायं ग्रन्थोस्माभिर्मुद्रितोस्ति । पाण्डुरङ्ग जावजी, निर्णयसागरयत्रालयाधिपतिः ।