पृष्ठम्:देलरामाकथासारः.pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ सर्गः।]
५१
देलरामाकथासारः।

साथ वाररमणी तदीयवस्तुव्रजं च तदुपार्जितं धनम् ।
आनिनाय नृपनन्दनान्तिकं दास्यलेखमिह योगिनीगृहे ॥ ३३ ॥
अत्रान्तरे तत्र पुरे हि देलरामाप्रवृत्तिं प्रथितामितीमाम् ।
प्रत्यालयं सर्वजनो निशम्य नरेन्द्रसूनुं प्रशशंस हर्षात् ॥ ३४ ॥
राजापि चाकर्ण्य जनश्रुतिं तां प्रभूतसंभूतकुतूहलेन ।
स्वराजधानीमनयद्विसृज्य भृत्यान्प्रियान्भूपसुतस्ततस्तम् ॥ ३५॥
ततः परिज्ञाय निजं कनिष्ठं सहोदरं भूमिपतिस्तदानीम् ।
आनन्दबाष्पाम्बुकणार्द्रनेत्रो गाढं समुत्थाय तमालिलिङ्ग ॥ ३६ ।।
तमग्रज सोऽपि विभाव्य हर्षात्तज्जानुयुग्मं परिचुम्ब्य चैव ।
कृत्वा प्रणामं निकटोपविष्टो बाष्पाम्बुधाराकुलितो बभाषे ॥ ३७ ।।
यातो मसेदान्तिकतः सुदूरं यदा पुरा मां प्रविहाय तूर्णम् ।
दिनावसानेऽपि तदा मया त्वं कुतोऽपि नान्विष्य चिरं हि लब्धः ॥३८॥
श्रुत्वेति राजा निजगाद तत्र स्वभ्रातरं तत्त्रपया विनम्रः ।
ममेह संप्राप्तनरेन्द्र तस्य त्वं विस्मृतोऽपूर्णमतेस्तदानीम् ॥ ३९ ।।
श्रुत्वेत्यसौ तस्य शशंस देलरामाप्रवृतिं पुरतोऽग्रजस्य ।
स चाप्यवोचन्निखिलं स्वराज्यप्राह्यादिवृत्तान्तमशेषमेव ॥ ४० ॥
कथान्तरे तं निजगाद राजा मो(मु)रादभक्षं(बख्शं) स्वसहोदरं सः ॥
इहत्यसर्वामितसेनया स्वं देशं व्रजावोवरमद्य जेतुम् ॥ ४१ ॥
यत्रैव हेतिं जनकश्चकार यत्रैव नो ज्ञातिजना वसन्ति ।
हलाभदेशं स्वमनोरथो मे प्रयातुमद्यैव हि विद्यते तम् ॥ ४२ ॥
श्रुत्वेति सोऽपि प्रशशंस हर्षान्मो(मु)रादभक्षो(बख्शो)वचनं तदेव ।
आज्ञां ददौ सोऽथ पुरेऽत्र सेवाकृते नरेन्द्रः पृतनाधिपाय ॥ ४३ ॥
अल्पैर्दिनैः सर्वबलेऽपि सज्जीकृतेऽथ सेनापतिना नरेन्द्रः ।
विनिर्ययौ स्वं नगरं विजेतुं दत्त्वा परस्मै निजराज्यमत्र ॥ ४४ ।।
दासीपाणो(?)पार्जितदेलरामासमन्वितस्तद्धनपूरितोष्ट्रः ।
योगीश्वरीपुत्रिकया च साकं तमन्वगच्छत्स निजानुजन्मा ॥ ४५ ॥