पृष्ठम्:देलरामाकथासारः.pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
काव्यमाला।

यन्मदीयमहरज्जनन्यनल्पं हि वस्तुनिचयं सुदुर्लभम् ।
तद्ददातु सकलं तदुद्गतं स्वापतेयमपि चानुवासरम् ॥ २० ॥
प्रत्यहं च मम दास्यसेवनं चेत्करोति हि विलोक्य सांप्रतम् ।
लेखमम्ब रुचिरं भवत्समक्षं स्फुटाक्षरततिप्रशोभितम् ॥ २१ ॥
तत्करोमि भवदीयशासनान्मातरद्य हि तथाविधामिमाम् ।
रासभीजनिमथो निवार्य तूर्ण प्रभाववशतः पुरस्तव ॥ २२ ॥
वाचमेवमथो सा निशम्य तां व्याजहार नरनाथनन्दनम् ।
योगिनी प्रमुदिता विहस्य संकल्पमाशिषममन्दसिद्धिदम् ॥ २३ ॥
दुर्मतिं कुगणिकां करोषि चेद्रासभीजनिविवर्जितामिमाम् ।
यद्यदिच्छसि ददाति तद्रुतं साक्षिणी ह्यपरथा त्वहं सदा ॥ २४ ॥
योगिनीगिरमिमां निशम्य सच्छद्मशङ्गितमनोनिमित्ततः ।
त्रिर्मनोरथमवोचदात्मनः साक्षिणोऽप्यकृत तत्र पञ्चषान् ॥ २५ ॥
पादपत्वचमथो मुमोच तां प्राप यां प्रवरयोगिनीवरात् ।
मूर्ध्नि भूमिपतिनन्दनः स तस्यास्तदा सपदि वारयोषितः ॥ २६ ॥
तत्प्रभाववशतः क्षणेन सा गर्दभीसमुचिताकृतिं जहौ
प्राप साभरणचित्तहारिकाम्यात्मविग्रहमथो तथाविधम् ॥ २७ ॥
वारयोषिदथ सा तदोपसृत्य प्रणाममकरोत्प्रहर्षिता ।
भूमिपालतनयस्य तस्य विन्यस्य जानुयुगलं ससंभ्रमम् ॥ २८॥
सोऽपि मन्युवशतस्ततोऽभवत्तां विलोक्य पुरत पराङ्मुखः ।
योगिनी किल तदिङ्गितं च तस्यै न्यवेदयदमर्षदर्शनात् ॥ २९ ॥
वारयोषिदपि योगिनीगिराङ्गीचकार विनयात्प्रणम्य सा।
अञ्जसा सकलमेव राजपुत्रेप्सितं बहुविधं यथोदितम् ॥ ३०॥
तद्दिने निजगृहं समानयद्योगिनी नृपतिनन्दनं ततः ।
वारयोषिदपि तस्य शासनाद्ध्रीनता निजगृहं जगाम सा ॥ ३१॥
भूमिपालतनयाय तत्र तस्मै निजां दुहितरं समर्पयत् ।
पाणिपीडनमथो विधाय सा योगिनी प्रमुदिता यथाविधि ॥ ३२ ॥